3-3-155 विभाषा धातौ सम्भावनवचने अयदि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सम्भावने अलम् इति चेत् सिद्धाप्रयोगे
संभावनेऽलमिति चेत् सिद्धाप्रयोग इति सर्वमनुवर्तते। संभावनमुच्यते येन स संभावनवचनः। संभावनवचने धातावुपपदे यच्छब्दवर्जिते धातोर्विभाषा लिङ् भवति। पूर्वेण नित्यप्राप्तौ विकल्पार्थं वचनम्। संभावयामि भुञ्जीत भवान्। संभावयामि भोक्ष्यते भवान्। अवकल्पयामि भुञ्जीत भवान्, भोक्ष्यते भवान्। श्रद्दधे भुञ्जीत भवान्, भोक्ष्यते भवान्। अयदीति किम्? संभावयामि यद् भुञ्जीत भवान्॥
पूर्वसूत्रमनुवर्तते । संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् न तु यच्छब्दे । पूर्वेण नित्ये प्राप्ते वचनम् । संभावयामि भुञ्जीत भोक्ष्यते वा भवान् । अयदि किम् । संभावयामि यद्भुञ्जीथास्त्वम् ॥
<<विभाषा धातौ सम्भावनवचनेऽयदि>> - विभाषा धातौ ।अयदी॑ति छेदः । तदाह — नतु यदिति । लिङभावे लृट्, 'शेषे लडयदौ' इत्यतस्तदनुवृत्तेः । संभावयामीति । प्रायेण भोक्तुं समर्थ इत्यर्थः ।
सम्भावयामि भुञ्जीत भवानिति । भोजने भवांश्च्छक्त इत्युत्प्रेक्ष इत्यर्थः ॥