3-3-152 उताप्योः समर्थयोः लिङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
उत अपि इत्येतयोः समर्थयोर्धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। बाढमित्यस्मिन्नर्थे समानार्थत्वमनयोः। उत कुर्यात्। अपि कुर्यात्। उताधीयीत। अप्यधीयीत। बाढमध्येष्यत इत्यर्थः। समर्थयोरिति किम्? उत दण्डः पतिष्यति। अपि द्वारं धास्यति। प्रश्नः प्रच्छादनं च गम्यते। <<वोताप्योः>> ३.३.१४१ इति विकल्पो निवृत्तः। इतः प्रभृति भूतेऽपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ्। भविष्यति तु सर्वत्रैव नित्यः॥
बाढमित्यर्थेऽनयोस्तुल्यार्थता । उत अपि वा हन्यादघं हरिः । समर्थयोः किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः प्रच्छादनं च गम्यते । इतः प्रभृति लिङ्निमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लृङ् ॥
<<उताप्योः समर्थयोर्लिङ्>> - उताप्योः । समौ अर्थौ ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थयोरित्यर्थः । कमर्तमादायानयोरेकार्थकत्वमित्यत आह — बाढमिति । तथा च बाढार्थकयोः उत अपि इत्यनयोः प्रयोगे लिङ् स्यान्न तु लकारान्तरमित्यर्थः । उत अपि वेति । उत हन्यादघं हरिः, अपि हन्यादघं हरिरित्यन्वयः ।उताऽपी॑बाढमितयर्थकौ । गम्यते इति ।उत दण्ड पतिष्यती॑त्यत्र उतशब्देन प्रश्नो गम्यते ।अपिधास्यति द्वार॑मित्यत्र अपिना धाधातोः प्रच्छादनार्थकत्वं गम्यत इत्यर्थः । इतः प्रभृतीति ।वोताप्यो॑रिति मर्यादायामाङ् ।उताप्यो॑रत्यतः प्राग्भूते लिङ्निमित्ते लृङ् वेत्यधिक्रियते ।उताप्यो॑रित्यादिसूत्रेषु भूतेलिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इत्येवाधिक्रियते इत्युक्तम् । एवं चउताप्यो॑रिति सूत्रप्रभृति लिङ्निमित्तेक्रियापत्तौ भूते लृङित्येवाधिक्रियते, नतु वाग्रहणम् । अतो नित्यमेवाऽत्र विषये क्रियातिपत्तौ भूते भविष्यति च लृङित्यर्थः ।
समर्थयोरिति । सूत्रे समशब्दस्य निपातनाद् ठतोलोपःऽ शकन्ध्वादित्वाद्वा पररूपत्वम् । संशब्द एव वा वृतौ समशब्देन समानार्थः, यथा -'प्रोपाभ्यां समर्थाभ्याम्' , यथा - मुखसंमुखस्येत्यत्रेति भावः । प्रश्नः प्रच्छादनं च गम्यत इति । आद्ये प्रश्नो गम्यते, द्वितीये प्रच्छादनम् । ननु चापिशब्दोऽपि प्रश्ने दृष्टः - ठप्यग्रणीर्मन्त्रकृतृमृषीणाम्ऽ अपि प्रसन्नं हरिणेषु ते मनःऽ इति ततश्च प्रश्नेऽपि समानार्थत्वमनयोरिति उत दण्जः पतिष्यतीति प्रत्युदाहरणानुपपतिः ? एवं मन्यते - अप्यग्रणीरित्यादौ प्रष्टव्यमर्थान्तरमपेक्ष्य समुच्चयार्थ एवापिशब्दः, प्रश्नस्त्वर्थः प्रकरणादिना गम्यते; तेन नानयोः प्रश्ने समानार्थत्वमिति ॥