शेषे लृडयदौ

3-3-151 शेषे लृट् अयदौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् चित्रीकरणे

Kashika

Up

index: 3.3.151 sutra: शेषे लृडयदौ


यच्चयत्राभ्यामन्यत्र चित्रीकरणं शेषः। शेषे उअपपदे चित्रीकरणे गम्यमाने धातोः लृट् प्रत्ययो भवति, यदिशब्दश्चेन् न प्रयुज्यते। सर्वलकाराणामपवादः। आश्चर्यम्, चित्रमद्भुतम्, अन्धो नाम पर्वतमारोक्ष्यति, बधिरो नाम व्याकरनमध्येष्यते। अयदौ इति किम्? आश्चर्यं यदि स भुञ्जीत, यदि सोऽधीयीत। लिङ् निमिताभावातिह लृङ् न भवति।

Siddhanta Kaumudi

Up

index: 3.3.151 sutra: शेषे लृडयदौ


यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लृट् स्यात् । आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति । अयदौ किम् । आश्चर्यं यदि सोऽधीयीत ॥

Balamanorama

Up

index: 3.3.151 sutra: शेषे लृडयदौ


शेषे लृडयदौ - शेषे लृडयदौ ।यच्चयत्राभ्यामन्यः शेषः । तदाह — यच्चयत्राभ्यामन्यस्मिन्निति । 'यदिभिन्ने' इति शेषः । लृट्स्यादिति । नतु लकारान्तरमित्यर्थः । आश्चर्यमिति । अन्धः कृष्णं द्रक्ष्यतीत्याश्चर्यमित्यन्वयः । नामेत्यव्ययमाश्चर्यद्योतकम् । मूक् इति । मूकोऽधीयीत इत्याश्चर्यमित्यन्वयः । यदीत्याश्चर्यद्योतकम् ।

Padamanjari

Up

index: 3.3.151 sutra: शेषे लृडयदौ


यच्चयत्राभ्यामिति । चित्रीकरणापेक्षस्तु शेषो न भवति, तस्येह स्वरितत्वेनाधिकारात् । आश्चर्यं यदि स भुञ्जीतेति । अत्रानवकॢप्तिराश्चर्यं च द्वयं गम्यते, तत्राश्चर्यनिमिते लृटि प्रतिषिद्धे जातुयदोर्लिङ्विधाने यदायद्योरुपसङ्ख्यानमित्यनवकॢप्तौ लिङ् । भाष्ये तु शम्भावनार्थो यदिशब्दः प्रयुज्यते, ततश्च सम्भावनमत्र तात्पर्यार्थः, न चित्रीकरणम्; ततश्चायदाविति न वक्तव्यम्, लिङपि'सम्भावने' लम्ऽ इत्यनेनैव' इत्युक्तम् । यदाह - चित्रीकरणे यदिप्रतिपेधानर्थक्यमर्थान्यत्वादिति ॥