3-3-150 चित्रीकरणे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् यच्चयत्रयोः
यच्चयत्रयोरित्येव। चित्रीकरणमाश्चर्यमद्भुतं विस्मयनीयम्। यच्चयत्रयोरुपपदयोश्चित्रीकरणे गम्यमाने धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। यच्च तत्र भवान् वृषलं याजयेत्। यत्र तत्र भवान् वृषलं याजयेत्, आश्चर्यमेतत्। क्रियातिपत्तौ यथायथं लृङ् भवति॥
यच्च यत्र वा त्वं शूद्रं याजयेः । आश्चर्यमेतत् ॥
<<चित्रीकरणे च>> - चित्रीकरणे च । यच्चयत्रयोः प्रयोगे आश्चर्ये गम्ये लिहेव स्यान् तु लकारान्तरमित्यर्थः । उदाहरणे यच्चेति यत्रेति चाश्चर्यद्योतकम् । त्वं शूद्रं याजयेरिति यत्तदाश्चर्यमित्यन्वयः ।