गर्हायां च

3-3-149 गर्हायां च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् यच्चयत्रयोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनवक्ऌप्त्यमर्षयोरिति निवृत्तम्। गर्हा निन्दा कुत्सेत्यनर्थान्तरम्। यच्च यत्रेत्येतयोरुपपदयोर्धातोर्लिङ् प्रत्ययो भवति गर्हायां गम्यमानायाम्। सर्वलकाराणामपवादः। यच्च तत्र भवान् वृषलं याजयेत्। यत्र तत्र भवान् वृषलं याजयेद् ऋद्धो वृद्धः सन् ब्राह्मणः। गर्हामहे, अहोऽन्याय्यमेतत्। क्रियातिपत्तौ यथायथं लृङ् भवति॥

Siddhanta Kaumudi

Up

अनवकॢप्त्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्हायां लिङेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजयेः । अन्याय्यं तत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गर्हायां च>> - गर्हायां च । निवृत्तमिति । व्याख्यानादिति भावः ।यच्चत्रयोरिति, लिहिति चानुवर्तते । तदाह -यच्चयत्रयोर्योगे इति.लिङेवेति । नतु लकारान्तरमित्यर्थः । उदारसणे यच्चेति यत्रेति च गर्हाद्योतकम् । 'त्वं शूद्रं याजये' रितियत्तदन्याय्यमित्यन्वयः । लृङ् प्राग्वत् ।

Padamanjari

Up

दरिद्रश्चेद्वृषलयाजनमपि युक्तं स्यात्, तत उक्तम् - ऋद्धैति । ऋद्धस्याप्युपभोगबाहुल्येन सम्भाव्येत, अत उक्तम् - वृद्ध इति । वृद्धस्यापि जातिमात्रब्राह्मणस्य युक्तं स्यात्, अत उक्तम् - सद्ब्राह्मण इति । सद्वंशजः सदाचारश्चेत्यर्थतो गर्हामर्ह इति ॥