यच्चयत्रयोः

3-3-148 यच्चयत्रयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् अनवक्लृप्त्यमर्षयोः अकिं

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनवक्ऌप्त्यमर्षयोरित्येव। यच्च यत्र इत्येतयोरुपपदयोरनवक्ऌप्त्यमर्षयो — र्गम्यमानयोर्धातोर्लिङ् प्रत्ययो भवति। लृटोऽपवादः। योगविभाग उत्तरार्थः। यथासंख्यं नेष्यते। यच्च तत्र भवान् वृषलं याजयेत्। यत्र तत्र भवान् वृषलं याजयेत्। क्रियातिपत्तौ यथायथं लृङ् भवति॥

Siddhanta Kaumudi

Up

यच्च यत्र वा त्वमेवं कुर्याः । न श्रद्दधे न मर्षयामि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<यच्चयत्रयोः>> - यच्चयत्रयोः । यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवकॢप्त्यमर्षयोर्लिङ् स्यादित्यर्थः । लृटोऽपवादः । योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः । उदाहरणे यच्चेति यत्रेति च अनवकॢप्त्यमर्षद्योतकौ । त्वमेवं कुर्या इत्येतन्न श्रद्दधे, न मर्षयामि वेत्यन्वयः । अत्रापिभविष्यति नित्यं लृङ्, भूते वे॑त्युक्तमनुसंधेयम् । लिङ्निमित्तस्य सत्त्वात् ।

Padamanjari

Up

लृट एवापवाद इति । पूर्ववत्प्राप्तस्य । एवकारः पौनर्वचनिकः । योगविभाग उतरार्थ इति । उतरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्माभूदिति । इहानवकॢप्त्यमर्षौ द्वौ, यच्चयत्रयोरित्युपपदे अपि द्वे एव, ततश्च यथासङ्ख्यं प्राप्नोति ? तत्राह - यथासङ्ख्यमिह नेष्यते इति । पूर्ववल्लक्षणव्यभिचारचिह्नात् बह्वचः पूर्वनिपातात् ॥