3-3-147 जातुयदोः लिङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् अनवक्लृप्त्यमर्षयोः अकिं
अनवक्ऌप्त्यमर्षयोरित्येव। जातु यदित्येतयोरुपपदयोरनवक्ऌप्त्यमर्षयोर्गम्य — मानयोर्धातोर्लिङ् प्रत्ययो भवति। लृटोऽपवादः। जातु तत्र भवान् वृषलं याजयेत्। यन्नाम तत्र भवान् वृषलं याजयेत्। न श्रद्दधे, न मर्षयामि॥ जातुयदोर्लिङ्विधाने यदायद्योरुपसंख्यानम्॥ यदा भवद्विधः क्षत्रियं याजयेत्। यदि भवद्विधः क्षत्रियं याजयेत्। न श्रद्दधे, न मर्षयामि। क्रियातिपत्तौ भूते वा लृङ्। भवष्यिति नित्यम्॥
।<!यदायद्योरुपसंख्यानम् !> (वार्तिकम्) ॥ लृटोऽपवादः । जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि । लृङ् प्राग्वत् ॥
<<जातुयदोर्लिङ्>> - जातुयदोर्लिङ् ।जातु यत् अनयोः प्रयोगे अनवकॢप्त्यमर्,योर्लिङ् स्यादित्यर्थः । यदिति विभक्तिप्रतिरूपकमव्ययम् ।अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपी॑ति लिङ्लृटौ प्राप्तौ लिङेवेत्यर्तमिदम् । तदाह - लृटोऽपवाद इति । यदायद्योरिति । यदायद्योः प्रयोगेऽपि उक्तविषये लिङ उपसङ्ख्यानमित्यर्थः । जात्वादिशब्दा उदाहरणे अनवकॢप्त्यमर्षद्योतकाः । त्वादृशो हिरं निन्देदित्यतेतन्नावकल्पयामि, न मर्षयामि वेत्यन्वयः । नावकल्पयामीत्यस्य न संभवायामीत्यर्थः । लृङ् प्राग्वदिति । भविष्यति नित्यं लृङ्भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः, जात्वादियोगस्तु, अनवकॢप्त्यमर्षयोश्च लिङ्निमित्तत्वादिति भावः ।
लृटोऽपवाद इति । अनवकॢप्त्यादिसूत्रेण लिङ्लृटोर्द्वयोरपि प्राप्तयोर्लिणेóव यथा स्यात्, लृण्मा भूदित्यवमर्थ इत्यर्थः । यदायद्योरुपसङ्ख्यानमिति । सूत्रवत् लृटोऽपवादः ॥