3-3-146 किंकिलास्त्यर्थेषु लृट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् अनवक्लृप्त्यमर्षयोः अकिं
अनवक्ऌप्त्यमर्षयोरिति वर्तते। किंकिलशब्दः समुदाय एव उपपदम्। अस्त्यर्था अस्तिभवतिविद्यतयः। किंकिलास्त्यर्थेषूपपदेष्वनवक्ऌप्त्यमर्षयोर्धातोर्लृट् प्रत्ययो भवति। लिङोऽपवादः। किंकिल नाम तत्र भवान् वृषलं याजयिष्यति। अस्ति नाम तत्र भवान् वृषलं याजयिष्यति। भवति नाम तत्र भवान् वृषलं याजयिष्यति। विद्यते नाम तत्र भवान् वृषलं याजयिष्यति। न श्रद्दधे, न मर्षयामि। लिङ्निमित्तमिह नास्ति तेन लृङ् न भवति॥
अनवकॢप्त्यमर्षयोरित्येतत् गर्हायां च <{SK2806}> इति यावदनुवर्तते । किंकिलेति समुदायः क्रोधद्योतक उपपदम् । अस्त्यर्थाः अस्तिभवतिविद्यतयः । लिङोऽपवादः । न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे । अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि । अत्र लृङ् न ॥
<<किंकिलास्त्यर्थेषु लृट्>> - किङ्किला । किंङ्किलेति । समुदायस्य, अस्त्यर्थानां च द्वन्द्वः । यावदिति ।गर्हायां चेत्तः प्रागित्यर्थः । किङ्किलेत्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवकॢप्त्यमर्षयोर्लृट् स्यादित्यर्थः । पूर्वसूत्रेण लृङ्लृरटोः प्राप्तौ लृडेवेत्यर्थमिदम् । तदाह — लिङोऽपवाद इति । न श्रद्दधे इति । न संभावयामीत्यर्थः । त्वं शूद्रान्नं भोक्ष्यसे इति यत्तन्न श्रद्दधे, न मर्षये वा किङ्किलेत्यन्वयः । किङ्किलेति क्रोधं द्योतयति । अस्तीति । शूद्रस्य स्त्री शूद्री । तां गमिष्यसीत्यस्ति भवति विद्यते वेत्यन्वयः । अत्र लृङ् नेति । भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिह न संभवति, अत्र लिङो विध्यभावेन लिङ्निमित्तविरहात् ।
समुदाय उपपदमिति । केवलस्य किंशब्दस्यानवकॢप्त्यमर्षयोर्वृत्यसम्भवात् । लिङेऽपवाद इति । पूर्वेणाप्रप्तस्य । अस्तितामेत्यादि । भवत्कर्तृकं वृषलयाजनमस्तीत्यर्थः । उक्तं हि'पच्यादयः क्रिया भवतिक्रियायाः कर्त्र्यो भवन्ति' इति ॥