3-3-145 अनवक्लृप्त्यमर्षयोः अकिं वृत्ते अपि प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
गर्हायामिति निवृत्तम्। अनवक्ऌप्तिरसंभावना। अमर्षोऽक्षमा। किंवृत्तेऽकिंवृत्ते चोपपदेऽनवक्ऌप्त्यमर्षयोर्धातोर्लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणामपवादः। बह्वचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम्। तेन यथासंख्यं न भवति। अनवक्ऌप्तौ तावत् — नावकल्पयामि, न संभावयामि, न श्रद्दधे, तत्र भवान् नाम वृषलं याजयेत्। तत्र भवान् नाम वृषलं याजयिष्यति। को नाम वृषलः, यं तत्र भवान् याजयेत्। को नाम तत्र भवान् वृषलं याजयिष्यति। अमर्षे — न मर्षयामि तत्र भवान् वृषलं याजयेत्, याजयिष्यति। को नाम वृषलः, यं तत्र भवान् याजयेत्, याजयिष्यति। भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ् भवति। भविष्यति नित्यम्। नावकल्पयामि तत्र भवान् नाम वृषलमयाजयिष्यत्॥
गर्हायामिति निवृत्तम् । अनवकॢप्तिरसंभावना । अमर्षोऽक्षमा । न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥
<<अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि>> - अनवकॢप्यमर्ष । निवृत्तमिति । व्याख्यानादिति भावः । अनवकॢप्त्यमर्षयोर्लिङ्लृटोश्च यथासङ्ख्यं नेष्यते, अल्पाच्तरस्य अमर्षशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः । न सम्भावयामीति । अकिंवृत्ते उदाहरणम् । भवान् हिरं निन्देदिति यत्तन्न संभवायामि, न मर्षये वेत्यन्वयः । किंवृत्ते उदाहरति — कः कतर इति । लृङ्प्राग्वदिति । भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः ।
अपिग्रहणं शक्यमकर्तुम्, कथम् ? यथा ठुपकादिभ्योऽन्यरस्यामद्वन्द्वेऽ इत्यत्राद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्यर्थम्, तथेहाप्यकिंवृतग्रहणं किंवृताधिकारनिवृत्यर्थम्, अस्मिन्नवृते किंवृते चाकिंवृते च प्रत्ययद्वयं भविष्यति, तत्क्रियते विस्पष्टार्थम् । तथाऽकिंवृत इत्यपि विस्पष्टार्थमेव, अस्वरितत्वादेव'किंवृते' इत्यस्याननुवृतेरविशेषेण प्रत्ययद्वयं भविष्यति । आह च - किंवृतस्यानधिकारादुतरत्राकिंवृतग्रहणानर्थक्यमिति । नु चाकिंवृतग्रहणेन किंवृतादन्यत्पदं पर्युदासाश्रयणेन गृह्यते, तस्योपपदसज्ञां वक्ष्यामीत्यकिंवृतग्रहणं स्यात् । किं पुनरुपपदसंज्ञायाः प्रयोजनम् ? समासः ? न; अतिङिति प्रतिषेधात् । यदा तर्हि लृटः सत्संज्ञकौ भवतस्तदा समासो यथा स्यात्, नास्य लृटः सत्संज्ञकौ भवतः,'लटः सद्वा' इत्यत्र भविष्यतीत्यधिकाराद्भविष्यतीत्येवं विहितस्य लृटो ग्रहणम् । अयं तु कालमात्रे विधानाद्यद्यपि भवति, तथापि भविष्यदधिकारविहितो न भवतीति नास्य शतृशानचौ भवतः ॥