3-3-144 किंवृत्ते लिङ्लृटौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् गर्हायां
index: 3.3.144 sutra: किंवृत्ते लिङ्लृटौ
गर्हायाम् इत्येव विभाषा न स्वर्यते। किंवृत्ते उपपदे गर्हायां गम्यमानायां धातोः लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणामपवादः। लिङ्ग्रहणं लटोऽपरिग्रहार्थम्। को नाम वृषलो यं तत्रभवान् याजयेत्, यं तत्रभवान् वृषलं याजयिष्यति। कतरो नाम, कतमो नाम यां तत्रभवान् वृषलं याजयेत्, याजयिष्यति। भूते क्रियातिपत्तौ वा लृङ्। भविष्यति तु नित्यम्। को नाम वृषलो यं तत्रभवानयाजयिष्यत्।
index: 3.3.144 sutra: किंवृत्ते लिङ्लृटौ
गर्हायामित्येव । विभाषा तु नानुवर्तते । कः कतरः कतमो वा हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥
index: 3.3.144 sutra: किंवृत्ते लिङ्लृटौ
किंवृत्ते लिङ्लृटौ - किंवृत्ते लिङ्लृटौ । नानुवर्तते इति । व्याख्यानादिति भावः । विभक्त्यन्तं डतरडतमान्तं च किंशब्दनिष्पन्नं किंवृत्तमित्युक्तम् । तस्मिन्प्रयुज्यमाने गर्हायां लिङ्लृटौ स्त इत्यर्थः । सर्वलकाराणामपवादाविति वृत्तिः । लृङ् प्राग्विदिति । भविष्यति नित्यं लृङ्, भूते वेति प्रागुक्तमिहाप्यनुसन्धेयमित्यर्थः । लिङ्निमित्तस्य किंवृत्तस्य गर्हायाश्च सत्त्वादिति भावः ।
index: 3.3.144 sutra: किंवृत्ते लिङ्लृटौ
'किंवृते लिप्सायाम्' इत्यत्र किंवृतं व्याख्यातम् । इह किंवृते लृट् चेति वक्तव्यम्, चकारात्प्रकृतो लिङ् भविष्यति, नार्थो लिङ्ग्रहणेन ? तत्राह - लिङ्ग्रहणमिति । चकारेण लिङ् इव लटोऽपि समुच्चयः स्यात्; तस्यापि प्रकृत्वात्, तस्मात् तन्निवृत्यर्थमिति भावः ॥