विभाषा कथमि लिङ् च

3-3-143 विभाषा कथमि लिङ् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् गर्हायां लट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गर्हायामिति वर्तते। कथंशब्द उपपदे गर्हायां गम्यमानायां धातोर्लिङ् प्रत्ययो भवति, चकाराल्लट् च। विभाषाग्रहणं यथास्वं कालविषये विहितानामबाधनार्थम्। कथं नाम तत्र भवान् वृषलं याजयेत्। कथं नाम तत्र भवान् वृषलं याजयति। कथं नाम तत्र भवान् वृषलं याजयिष्यति। कथं नाम तत्र भवान् वृषलं याजयिता। कथं नाम तत्र भवान् वृषलमयीयजत्। कथं नाम तत्र भवान् वृषलमयाजयत्। कथं नाम तत्र भवान् वृषलं याजयांचकार। अत्र लिङ्निमित्तमस्तीति भूतविवक्षायां क्रियातिपत्तौ वा लृङ्। भविष्यद्विवक्षायां सर्वत्र नित्येनैव लृङा भवितव्यम्॥

Siddhanta Kaumudi

Up

गर्हायामित्येव । कालत्रये लिङ् चाल्लट् । कथं धर्मं त्यजेस्त्यजसि वा । पक्षे कालत्रये लकाराः । अत्र भविष्यति नित्यं लृङ् भूते वा । कथं नाम तत्रभवान् धर्ममत्यक्षत् । अत्याक्षीद्वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा कथमि लिङ् च>> - विभषा कथमि । गर्हायामित्येवेति । अनुवर्तत एवेत्यर्थः ।कालत्रये लि॑ङिति शेषपूरणम् । भविष्यतीति निवृत्तमिति । भावः चाल्लडिति । 'समुच्चीयते' इति शेषः । तथा च कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्हायां लिङ्लटौ वा स्त इति फलितम् । कथं धर्मं त्यजेरिति । त्यक्तत्वान् त्यक्ष्यसि त्यजसि वेत्यर्थः ।गर्हितमेतदिति कथंशब्दाद्गम्यते । लटि उदाहरति — त्यजसि वेति । उक्तोऽर्थः । पक्षे इति । विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्लङ्लुङ्लट्लुट्लृट इत्यर्थः । अत्रेति । अत्रा = उक्तविषये भविष्यति काले क्रियाया अनिष्पत्तौ गम्यमानांलिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इति नित्यमेव लृङ्, कथमो गर्हायाश्च लिङ्निमित्तस्य सत्त्वादित्यर्थः, विशेषविहितत्वादिति भावः । भूते वेति ।वोताप्यो॑रिति भूते लिङ् निमित्ते लृङ् वेत्यधिकृत्वादुक्तविषये भूतकाले लृङ् वेत्यर्थः । भविष्यि नित्यं लृडित्यत्रोदाहरति — कथं नामेति ।तत्र भवा॑निति समुदायः पूज्यवाची । वेदप्रामाण्याभ्युपगन्तेति यावत् । एवंविधः कथं धर्मत्यक्ष्यत्, तत्त्यागस्य गर्हितत्वादिति भावः ।

Padamanjari

Up

विभाषाग्रहणमित्यादि । स्वस्मिन् स्वस्मिन् काले ये लृडादयो विहितास्तेषां च बाधा मा भूदित्येवमर्थमित्यर्थः । यद्येवम्, विभाषाग्रहणादेव लडपि भविष्यति, नार्थश्चकारेण ? सत्यम्; वर्तमाने सिद्ध्यति, कालान्तरे तु न सिद्ध्यति तस्मातदर्थश्चकारेण लटः गमुच्चयः । अत्र लिङ्निमितमस्तीति । कथमीत्येतद्गर्हा च ॥