3-3-141 वा आ उताप्योः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् लिङ्निमित्ते लृङ् क्रियातिपत्तौ भूते
index: 3.3.141 sutra: वोताप्योः
भूते लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सर्वमनुवर्तते। वा आ उताप्योः वोताप्योः। मर्यादायामयमाङ्, न अभिविधौ। उताप्योः समर्थयोर्लिङ् 3.3.152 इति वक्ष्यति। प्रागेतस्मात् सूत्रावधेः यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र भूते लिङ्निमित्ते क्रियातिपत्तौ लृङ् वा भवति इत्येतदधिकृतं वेदितव्यम्। वक्ष्यति, विभाषा कथमि लिङ् च 3.3.143 कथं नाम तत्र भवान् वृषलमयाजयिष्यत्। यथाप्राप्तं च याजयेत्।
index: 3.3.141 sutra: वोताप्योः
वा आ उताप्योरिति छेदः । उताप्योः - <{SK2809}> इत्यतः प्राग्भूते लिङ्निमित्ते लृङ् वेत्यधिक्रियते । पूर्वसूत्रं तु उताप्योरित्यादौ प्रवर्तते इति विवेकः ॥
index: 3.3.141 sutra: वोताप्योः
वोताप्योः - वोताप्योः । अयमप्यधिकारः । वा आ उताप्योरिति छेदः । भूते इति, लिङ्निमित्ते लृङिति चानवर्तते । तदाह — उताप्योरित्यतः प्रागिति ।उताप्योः समर्थयो॑रित्यतः प्रागित्यर्थः । नन्वनेनउताप्यो॑रित्यतः प्राग्भूते लिङ्निमित्ते लृङ्वेत्याधिकाराक्रान्तत्वाद्भूतेचेति पूर्वमधिकारसूत्रं निर्विषयमित्यत आह — पूर्वसूत्रं त्विति ।उताप्योः समर्थयोर्लि॑ङित्यारभ्य इच्छार्थेभ्यो विभाषे॑त्यतः प्राक्भूते चे॑ति पूर्वमधिकारसूत्रं प्रवर्तत इत्यर्थः । इमावधकारौ यत्रलिङ्विधिस्तत्रैव प्रवर्तेतते, नतु लडादिविधौ, लिङ्निमित्ताऽभावात् ।
index: 3.3.141 sutra: वोताप्योः
वा आ उताप्योरिति आङ्ः प्रश्लेषं दर्शयति । तत्राङ् उताप्योरित्यनेन सम्बन्धादल्पापेक्षत्वेनान्तरङ्गत्वाद्वा पूर्वं परेण सहाद्गुणे कृते पूर्वं प्रत्यन्तवद्भावाद् ठोमाङेश्चऽ इति पररूपम्, यथा - आऔउढा उ ओढा, अद्य ओढा अद्योढा, कदोढेअति । अत्रोताप्योः समर्थयोरिति यत्सप्तम्यन्तं तदवधित्वेनापादीयते, तत्र प्रकृतिवदनुकरणं भवतीत्यनुकरणस्याप्यप्रत्यय इति प्रतिषेधेनाप्रातिपदिकत्वादाङेऽपि योगे पञ्चम्यभावः । मर्यादायामाङिति । एतच्च विभाषा गर्हाप्रकृतौ प्रागुतापिभ्यामिति स्मरणादवसीयते । गर्हाप्रकृतौ गर्हाविशिष्टे प्रकृत्यर्थे । गर्हाग्रहणमनवकॢप्त्यादेरपि लिङ्निमितस्योपलक्षणम् ।'विभाषा कथमि लिङ्च' इति लिङ्निमिताभावादुतरसूत्रातिक्रमः ॥