3-3-137 कालविभागे च अहोरात्राणाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् न अनद्यतनवत् भविष्यति मर्यादावचने अवरस्मिन्
भविष्यति मर्यादावचनेऽवरस्मिन्निति वर्तते। कालमर्यादाविभागे सत्यवरस्मिन् प्रविभागे भविष्यति कालेऽनद्यतनवत् प्रत्ययविधिर्न भवति, न चेदहोरात्रसंबन्धी विभागः, तैस्तेषां च विभागे प्रतिषेधः। पूर्वेणैव सिद्धे वचनमिदमहोरात्रनिषेधार्थम्। योगविभाग उत्तरार्थः। योऽयं संवत्सर आगामी, तत्र यदवरमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, तत्रोदनं भोक्ष्यामहे। भविष्यतीत्येव — योऽयं वत्सरोऽतीतः, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्ज्महि। मर्यादावचन इत्येव — योऽयं निरवधिकः काल आगामी, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्महे। अवरस्मिन्नित्येव — परस्मिन् विभाषां ३.३.१३८ वक्ष्यति। अनहोरात्राणामिति किम्? त्रिविधमुदाहरणम्। योऽयं मास आगामी, तस्य योऽवरः पञ्चदशरात्रः, योऽयं त्रिंशद्रात्र आगामी, तस्य योऽवरोऽर्धमासः, योऽयं त्रिंशदहोरात्र आगामी, तस्य योऽवरः पञ्चदशरात्रः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः। सर्वथाहोरात्रस्पर्शे प्रतिषेधः॥
पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्रसंबन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर आगामी तस्य यदवरमाग्रहाण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम् । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्राध्येतास्महे ॥
कालमर्यादाविभागे सतीति । मर्यादा च विभागश्च मर्यादाविभागम् - समाहारद्वन्द्वः, तेन कालशब्दस्य षष्टीसमासः । न चेदहोरात्रसम्बन्धी विभाग इति । एतेनानहोरात्राणामिति सम्बन्धसामान्ये षष्ठी, न'कर्तृकर्मणोः' इति दर्शयति । एवं सति यदिष्ट्ंअ सिद्धं तद्दर्शयति - तैरिति । तैरन्यस्य कालस्य विभागोऽन्येन वा तेषां तैरेव वा सर्वथा प्रतिषेधः । ननु पूर्वसूत्रे एवानहोरात्राणामिति वक्तव्यम्, एवमपि हि सामर्थ्यात्कालविभागस्यैव प्रतिषेधो विज्ञायते, न हि देशविभागस्याहोरात्रैः सम्बन्धोऽस्ति, तत्किं योगविभागेन ? तत्राह - योगविभाग उतरार्थ इति । उतरसूत्रे कालविभाग एव विभाषा यथा स्याद्, देशविभागे मा भूदिति । आग्रहायणीउमार्गशीर्षी । त्रिविधमुदाहरणमिति । प्रथमं तैविभागस्य, द्वितीयं तेषां विभागस्य, तृतीयं तैस्तेषामहोरात्रसंस्पर्शे उ अहोरात्रगन्धे, एतच्च प्रसज्यप्रतिषेधसमाश्रयणाल्लभ्यते । दर्शितश्च प्रसज्यप्रतिषेधः'न चेदहोरात्रसम्बन्धी विभागः' इति; अन्यथा ठनहोरात्रसम्बन्धिनि विभागःऽ इत्यवक्ष्यत् ॥