भविष्यति मर्यादावचनेऽवरस्मिन्

3-3-136 भविष्यति मर्यादावचने अवरस्मिन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् न अनद्यतनवत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नानद्यतनवदिति वर्तते। अक्रियाप्रबन्धार्थम्, असामीप्यार्थं च वचनम्। भविष्यति काले मर्यादावचने सत्यवरस्मिन् प्रविभागेऽनद्यतनवत् प्रत्ययविधिर्न भवति। योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्ष्यामहे, तत्र सक्तून् पास्यामः। भविष्यतीति किम्? योऽयमध्वा गत आ पाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र युक्ता अध्यैमहि, तत्र द्विरोदनमभुञ्ज्महि, तत्र सक्तूनपिबाम। मर्यादावचन इति किम्? योऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, सक्तून् पातास्मः। अवरस्मिन्निति किम्? योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्, तस्य यत्परं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, तत्र सक्तून् पातास्मः। इह सूत्रे देशकृता मर्यादा, उत्तरत्र कालकृता। तत्र न विशेषं वक्ष्यति॥

Siddhanta Kaumudi

Up

भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अक्रियाप्रबन्धार्थमसामीप्यार्थं च वचनमिति ।'क्रियाप्रबन्धसामीप्ययोः' इति नानुवर्तते, तदनुवृतौ हि नियमार्थमेतत् स्याद् - भविष्यत्येव मर्यादावचन एवावरस्मिन्नेवेति वा । विधिनियमसम्भवे च विधिरेव ज्यायानिति भावः । मर्यादावचने सतीति । मर्यादोक्तौ सत्यामित्यर्थः । वचनग्रहणमभिविध्यर्थम्, वचनग्रहणे हि सति मर्यादामात्रवचने मर्यादावचन इत्यर्थो भवति । सैव हि मर्यादा यदा कार्येणाभिसम्बद्ध्यते तदा ठभिविधिःऽ इत्युच्यते । अवरस्मिन्प्रविभाग इति । अपरभागविषयश्चेद्धात्वर्थो भवतीत्यर्थः, अपरस्मिन्निति वचनाद्यस्य मर्यादा तस्य द्वौ भागौ कल्पयितव्याविति गम्यते । गन्तव्य इति । अध्वगमनस्य भविष्यत्वं दर्शयÄस्तत्र कर्तव्यस्य भोजनादेर्भविष्यत्वं दर्शयति । तस्य यदपरमिति । अनेनाध्वनो विभागो द्विरित्यनेनापि क्रियाप्रबन्धाभावो द्विरेव, नानवरतमिति । योऽयमध्वागत इति । भूतकालतां दर्शयति । अध्यैमहीति । इङे लङ्, शपो लुक्, ठाडजादीनाम्ऽ, ठाटश्चऽ। अभुञ्ज्महीति ।'भुजो' नवनेऽ इत्यात्मनेपदम्,'श्नसोरल्लोपः' , चुत्वम् । तत्र उतरसूत्रे विशेषं वक्ष्यतीति । अनहोरात्राणामित्यनेन ॥