नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः

3-3-135 न अनद्यतनवत् क्रियाप्रबन्धसामीप्ययोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Kashika

Up

index: 3.3.135 sutra: नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः


भूतानद्यतने भविष्यदनद्यतने च लङ्लुटौ विहितौ, तयोरयं प्रतिषेधः। अनद्यतनवत् प्रत्ययविधिर्न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने। क्रियाणां प्रबन्धः सातत्येनानुष्ठानम्। कालानां सामीप्यं तुल्यजातीयेनाव्यवधानम्। यावज्जीवं भृशमन्नमदात्। भृशमन्नं दास्यति। यावज्जीवं पुत्रानध्यापिपत्। यावज्जीवमध्यापयिष्यति। सामीप्ये खल्वपि येयं पौर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायोऽग्नीनाधित, सोमेनायष्ट, गामदित। येयममावास्या आगामिनी, एतस्यामुपाध्यायोऽग्नीनाधास्यते, सोमेन यक्ष्यते, स गां दास्यते। द्वौ प्रतिषेधौ यथाप्राप्तस्य अभ्यनुज्ञापनाय।

Siddhanta Kaumudi

Up

index: 3.3.135 sutra: नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः


क्रियायाः सातत्ये सामीप्ये च गम्ये लङ् लुटौ न । यावज्जीवमन्नमदाद्दास्यति वा । सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित । सोमेनयाष्ट । येयममावस्याऽऽगामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ॥

Balamanorama

Up

index: 3.3.135 sutra: नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः


नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः - भविष्यति मर्यादा ।अवरस्मि॑न्निति च्छेदः । अनद्यतनवन्नेति । लुण्नेत्यर्थः ।अक्रियाप्रबन्धार्थ॑मिति भाष्यम् ।असामीप्यार्थं चे॑ति कैयटः । योऽयमिति । कस्मश्चिज्जनपदविशेषे वसतः आपाटलिपुत्राद्योऽयं गन्तव्योऽध्वा तस्य अध्वनो मध्यवर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशस्तत्र सक्तून् आः प्रभृति पास्याम इति योजना । अत्र कौशाम्ब्या इति मर्यादा गम्यते ।अवर॑मित्यनेन अवरत्वं गम्यते । अत्र भविष्यत्यद्यतेन लुण्न, किंतु लृडेवेति भावः । कालविभागे । पूर्वसूत्रमिति ।भविष्यति मर्यादावचनेऽवरस्मि॑न्निति सूत्रमित्यर्थः । ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यताअह — अहोरात्रेति । तथा च आहोरात्रसंबन्धिनि प्रविभागेभविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः । ननुभविष्यति मर्यादावचनेऽवरस्मिन्कालविभागे चानहोरात्राणामित्येकमेव सूत्रं कुतो नेत्यत आह — योगविभाग उत्तरार्थ इति । इदमुत्तरसूत्रे स्पष्टीभविष्यति । योऽयं वत्सर आगामीति । कालतो मर्यादायामुदाहरणम् । आग्रहायण्या इति । मार्गशीर्षपौर्णमास्या इत्यर्थः । युक्ता इति । नियमयुक्ता इत्यर्थः । अध्येष्यामहे इति । अत्र न लुट्, किंतु लृडेवेति भावः । पञ्चदशरात्रयुक्ता इति । पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः ।अच्प्रत्यन्ववपूर्वादित्यत्र अजिति योगविभागादच्समासान्तः । यद्वापञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः ।अहःसर्वैकदेशे॑त्यच्समासान्तः ।सङ्ख्यापूर्वंरात्रं क्लीब॑मिति तुलिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्ये॑ति वचनान्न भवति ।

Padamanjari

Up

index: 3.3.135 sutra: नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः


कालानां सामीप्यमिति ।'वर्तमानसामीप्ये' इत्यारभ्य कालप्रायत्वादस्य प्रकरणस्य सामान्येनोक्तावपि कालसम्बन्धिन एव सामीप्यस्याश्रयणमिति भावः । लुल्यजातीयेनेति । तत्रैव लोके सामीप्यव्यवहारादिति भावः । अदादिति ।'गातिस्था' इत्यादिना सिचो लुक् । अध्यापिपदिति । इङे णिच्,'क्रीङ्जीनां णौ' इत्यात्वम्, ठर्तिह्रीऽ इत्यादिना पुक्, लुङ् चिङ् ठिजादेर्द्वितीयस्यऽ इति पिशब्दस्य द्विर्वचनम्, णिलोपः । येयं पौर्णमास्यतिक्रान्तेति । पोर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी तामधिकृत्येदमुच्यते । सापि यद्यप्यमावास्ययान्याभिश्च तिथिभिर्व्यवहिता; तथापि तुल्यजातीयेन पोर्णमास्याख्येनाव्यहितत्वात्समीप्यं नातिवर्तते । आधितेति । दधातेराङ्पूर्वस्य'स्थाघ्वोरिच्च' इतीत्वम्,'ह्रस्वादङ्गात्' इति सिचो लोपः । अयष्टेति ।'झलो झलि' इति सिचो लोपः, व्रश्चादिसूत्रेण षत्वम् । अदितेति । ददाते रूपं पूर्ववत् । यक्ष्यते इति । व्रश्चादिषत्वे'षढोः कः सि' इति कत्वम्, सर्वत्र'स्वरितञितः' इत्यात्मनेपदम् । इह क्रियाप्रबन्धसामीप्ययोरद्यतनप्रत्ययौ लुङ्लृटौ इष्येते, नानद्यतनप्रत्ययौ लङ्लृटौ, तौ च लुङ्लृटौ ठद्तनवत् क्रियाप्रबन्धसामीप्ययोःऽ इत्यच्यमानेऽपि सिद्ध्यत एव, किमर्थं द्वौ प्रतिषेधावुच्येते ? इत्यत आह - द्वौ प्रतिषेधाविति । यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तं प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः स्यात् । इहाद्यतनवचने सति विधानमिदं विज्ञायते, तत्र लड्विधिप्रसङ्गे पूर्वविधाने ह्यद्यतनसंशब्दनेन विहितस्य कस्यचित्प्रत्ययस्याभावादद्यतने दृष्टस्यातिदेशः, लट् चाप्यद्यतने दृष्टस्तेन तस्यापि भूतभविष्यतोः प्रसङ्गः, लुङ्लृटोश्चायथाकालं विधिः प्रसज्येत - लुङे विषये लृट्, लृटश्च विषये लुङ् । ननु च वत्करणात्सादृश्यार्थात्सङ्करो न भविष्यति ? नैतदस्ति; इह लुङ्लृटौ भूतभविष्यतोरद्यतने च दृष्टौ, तत्राद्यतनवदित्युच्यमाने तस्मिन्नेवाद्यतने तयोरतिदेशोऽनथक इति कश्चिदंशो हातव्यः । तत्राद्यतनांशत्यागेनातिदेशे विज्ञायमाने भूतानद्यतने लुङ्, भविष्यदनद्यतने लृडिति सिद्धम् । यदा तु भूतभविष्यदशपरित्यागेनातिदेशः; तदा भूताद्यतने दृष्टस्य भविष्यदद्यतने, भविष्यदनद्यतने च दृष्टस्य भूताद्यतने विधानमिति सङ्करः स्यादेव, लट् चोभयत्र प्रसज्येत । वत्करणंतु यस्माद्धातोर्यस्मिन्नुपाधौ यः प्रत्ययो विहितः स तस्मादेव तस्मिन्नुपाधावेव यथा स्यादित्येवमर्थं स्यात् । तेन -'पूङ्यजोः शानन्' इत्यादौ कालव्यत्यास एव भवति, न धात्वादिव्यत्यासः । यदि पुनरयं द्वौ प्रतिषेधौ कृत्वा तूष्णीमास्ते, स्वैरेव विधायकैर्लडादय उत्सर्गाः स्वेषु स्वेषु कालेषु अपवादविनिर्मुक्तेषु भवन्तीति न सङ्करप्रसङ्गः । अतो यथाप्राप्तस्याभ्यनुज्ञानान्नायं वतिः; किं तर्हि ? मतुप् - अनद्यतनमस्यास्तीत्यनद्यतनवत्, सामान्यविवक्ष्यां नपुंसकत्वम् । अनद्यतनवत्प्रत्ययविधिर्न भवतीति । अस्याप्यनद्यतनवांश्चासौ प्रत्ययश्च तस्य विधिरित्यर्थ इति सर्वथा यदनद्यतने विहितं तत्सर्वं न भवति । वतौ'लङ्लुटौ विहितौ तयोः प्रतिषेधः' इत्युपलक्षणम् ॥