3-3-134 आशंसावचने लिङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम्
आशंसा येनोच्यते तदाशंसावचनम्, तस्मिन्नुपपदे धातोर्लिङ् प्रत्ययो भवति। भूतवच्चेत्यस्यायमपवादः। उपाध्यायश्चेदागच्छेत्, आशंसे युक्तोऽधीयीय। आशंसेऽवकल्पये युक्तोऽधीयीय। आशंसे क्षिप्रमधीयीय॥
आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ॥
<<आशंसावचने लिङ्>> - #आशंसावचने लिङ् । आशंसायाः प्राप्तीच्छाया भूते असंभवाद्भविष्यतीति लभ्यत इति मत्वाह — भविष्यतीति ।आशंसायां भूतवच्चे॑त्यस्यापवादः । तदाह — नतु भूतवदिति । गुरुश्चेदिति । गुरुरुपेयाच्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः । क्षिप्रयोगेऽपि परत्वाल्लिङेव, नतु लृडिति भावः ।
अधीयीयेति । इङे लिङ्ः ठिचोऽत्ऽ, सीयुट्, लिङ्ः सलोपः, धातोरियङ्, उपसर्गेण सह सवर्णदीर्घत्वम् । क्षिप्रवचने लृट्, आशंसावचने लिङ् विप्रतिषेधेन । क्षिप्रवचने लृडित्यस्यावकाशः - क्षिप्रमध्येष्यामह इति, आशंसावचने लिङ्त्यिस्यावकाशः - आशंसे युक्तोऽधीयीयेति; इहोभयं प्राप्नोति - आशंसे क्षिप्रमधीयीयेति, लिङ् भवति विप्रतिषेधेन । तदेतदुदाहरणे दर्शयति - आशंसे क्षिप्रमधीयीयेति ॥