3-3-133 क्षिप्रवचने लृट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् आशंसायां
आशंसायामित्येव। क्षिप्रवचन उपपद आशंसायां गम्यमानायां धातोर्लृट् प्रत्ययो भवति। भूतवच्चेत्यस्यायमपवादः। उपाध्यायश्चेत् क्षिप्रमागमिष्यति, क्षिप्रं व्याकरणमध्येष्यामहे। वचनग्रहणं पर्यायार्थम्। क्षिप्रं शीघ्रमाशु त्वरितमध्येष्यामहे। नेति वक्तव्ये लृड्ग्रहणं लुटोऽपि विषये यथा स्यात्। श्वः क्षिप्रमध्येष्यामहे॥
क्षिप्रपर्याये उपपदे पूर्वविषये लृट् स्यात् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति । शीघ्रं वप्स्यामः । नेति वक्तव्ये लृङ्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीघ्रं वप्स्यामः ॥
<<क्षिप्रवचने लृट्>> - क्षिप्रवचने लृट् । वचनग्रहणात्क्षिप्रपर्याये इति लभ्यते । तदाह — क्षिप्रपर्याये इति । पूर्वविषये इति । आशंसायामित्यर्थः ।आशंसायां भूतवच्चे॑त्यस्यापवादः । ननुक्षिप्रवचनेने॑त्येतावतैव आशंसायां क्षिप्रपर्याये उपपदे भविष्यति न भूतवन्न वर्तमानवदिति लाभाल्लृङ्गहणमनर्थकमित्यत आह — नेति वक्तव्ये इति ।क्षिप्रवचने ने॑त्युक्तेसामान्यातिदेशे विशेषानतिदेशः इनि न्यायेन भविष्यत्सामान्ये विहितस्य लृट एव निषेधः स्यान्नतु लुटः, तस्यानद्यतनभविष्यद्विशेषविधानात् । शीघ्रं वप्स्याम इति । अनद्यतनत्वद्योताय आश्शब्दः । अत्र न लुडिति भावः ।
वचनग्रहणं पर्यायार्थमिति । असति तस्मिन्'स्वं रूपं शब्दस्य' इति वचनात्क्षिप्रशब्द एवोपपदे स्यात्, सति तु पर्यायेष्वपि भवति । ननु भूतवच्चेत्यस्यायमपवादः, स च भविष्यत्कालविषयस्तत्र नेत्येव वक्तव्यम्, तस्मिन्प्रतिषिद्धे'लृट् शेषे च' इत्यनेनैव लृट् सिद्धः, तत्किं लृड्ग्रहणेन ? तत्राह - नेति वक्तव्ये इत्यादि । नेत्युच्यमाने'लृट् शेषे च' इत्यनेन लृड् भवन्ननद्यतने न स्यात्; लुटा बाधितत्वाद् । अतो लुड्विषयोऽपि यथा स्यादिति लृड्ग्रहणं क्रियत इत्यर्थः ॥