3-3-132 आशंसायां भूतवत् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् वर्तमानवत् वा
वेत्येव। वर्तमानसामीप्य इति नानुवर्तते। आशंसनमाशंसा, अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा। तस्याश्च भविष्यत्कालो विषयः। तत्र भविष्यति काल आशंसायां गम्यमानायां धातोर्वा भूतवत् प्रत्यया भवन्ति, चकाराद् वर्तमानवच्च। उपाध्यायश्चेदागमत्, आगतः, आगच्छति, आगमिष्यति, एते व्याकरणमध्यगीष्महि, एते व्याकरणमधीतवन्तः, अधीमहे, अध्येष्यामहे। सामान्यातिदेशे विशेषानतिदेशात् लङ्लिटौ न भवतः। आशंसायामिति किम्? आगमिष्यति॥
वर्तमानसामीप्य इति नानुवर्तते । भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीत् वर्षति वर्षिष्यति वा । धान्यमवाप्स्म वपामो वप्स्यामो वा । सामान्यातिदेशे विशेषानतिदेशः । तेन लङ्लिटौ न ॥
<<आशंसायां भूतवच्च>> - आशंसायां भूतवच्च । नानुवर्तते इति । अत्र व्याख्यानमेव शरणम् । अप्राप्तस्य प्रियस्य् प्राप्तीच्छा आशंसा । सा च भविष्यद्विषयैव । भूते इच्छाविरहात् । तदाह — भविष्यति काले इति । देवश्चेदिति । देव = पर्जन्यः, अवर्षीच्चेद्धान्यमवापम्स्म । वर्षति चेद्वपामः । वर्षिष्यति चेद्वप्स्याम इत्यन्वयः । भूतवद्भावाद्भविष्यति लुङ् — अवर्षीदिति अवाप्स्मेति च भवति । वपधातोर्लुङि उत्त्मपुरुषबहुवचने अवाप्स्मेति भवति । वृष्टिवापयोरुभयोरप्याशंसाविषयत्वादुभत्रापि लुङ । वर्तमानवत्त्वपक्षे तु लट् । तदुभयाऽभावे तु लृट् । ननु भूतवत्त्वपक्षे लङ्लिटावपि कुतो न स्यातामित्यत आह — सामान्यातिदेशे इति । भूतत्वसामान्ये विहितस्याऽतिदेशादनद्यतनभूतत्वविशेषविहितयोर्लङ्लिटोर्नाऽतिदेश इत्यर्थः । एतच्च भाष्ये स्पष्टम् ।
तस्याश्च भविष्यत्कालो विषय इति । भविष्यत्कालोऽस्येति भविष्यत्कालो धात्वर्थः, स आशंसाविषयः, सा तु वर्तमानकालैव । एवं च सामर्थ्याद्भविष्याद्विषयोऽयमतिदेशो विज्ञायत इत्याह - भविष्यत्काल इति । आशंसायां गम्यमानायामिति । आशंस्यमानक्रियावचनाद्धातोरित्यर्थः । उपाध्याश्चेदित्यादिकमांशसावाक्यम्, तत्रोपाध्यायागमनं व्याकरणाध्ययनं चोभ्यमाशंस्यमानमित्युभयत्रापि प्रत्ययः । अध्यगीष्महीति ।'विभाषा लुङ्लृटोः' इति इङेः गाङदेशः,'गाङ्कुटादिभ्यः' इति सिचो ङ्त्विम्, घुमास्थादिसूत्रेणेत्वम् । सामान्यातिदेशे इति । अत्र सूत्रे भूतशब्देन भूतमात्रमुच्यते, न तु तद्विशेषोऽनद्यतनः । सामान्यातिदेशे च विशेषो नातिदिश्यते, व्राह्मणवदस्मिन्क्षत्रिये वतितव्यमित्युक्ते ब्राह्मणमात्रप्रयुक्तं कार्यंगम्यते, न तु माठरादिविशेषप्रत्युक्तम्, तेनानद्यतनप्रयुक्तौ लङ्लिटौ न भवतः । इहानिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः, देवश्चेद्वृष्टो निष्पन्नाः शालय इति वस्तुस्वरूपकथनमेतत्, नात्राशंसा, तेन सूत्रेणाप्राप्तिः ? नैष दोषः; अप्शालिबीजसंयोग एव निष्पतिः शालीनां तत्रैव निष्पतेर्वृतेः । अत एव लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति । देवश्चेद्वृष्टः सम्पत्स्यन्ते शालय इति उक्ते, वक्तारो भवन्ति - मैवं वोचः, सम्पन्नाः शालय इति ब्रूहीति, हेतुभूतकालसम्प्रेक्षितत्वात्सिद्धम् । हेतुभूतस्य वर्षादेर्यः कालः स एव कार्यस्य सम्प्रेक्षितः स एव कार्यस्यापि कालो व्यवस्थाप्यते कारणान्तरापेक्षाभावप्रतिपादनाय । ततश्च कारणस्यैव कार्यरूपेण विवक्षितत्वादभेदाध्यवसायात्कारणस्य भूतत्वात्कार्यस्यापि भूतत्वं सिद्धमित्यर्थः । इह तु कश्चिदध्वानं जिगमिषुः पश्यति अमुष्मिन्नवकाशे कूपो भविष्यतीति, अनद्यतने कूपो भवितेति समासाद्य कूपोऽस्तीति, अतिक्रम्यकूपोऽभूदिति, अतिक्रम्योषितत्वात् कूप आसीदिति, अतिक्रम्याषित्वा विस्मृत्य कूपो बभूवेत; तदत्र सर्वत्र कूपसताया वतेमानत्वं भूतभविष्यद्रूपत्वमिति सर्वत्र लडेव प्राप्नोति, लुङदयस्तु वक्तव्याः ? तदाह - ठस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः कर्तुविद्यमानार्थत्वात्ऽ इति । भवन्तीशब्दो लटः पूर्वाचार्याणां संज्ञा । यदि वचनेन वर्तमान एव लुङदयो विधीयन्ते कूपोऽभूदिति प्रयोक्तव्ये कूपो भविष्यतीत्यपि प्रयुज्येत, तस्माद्यथास्वमेता विभक्तयः कालेषु प्रयुज्यन्ते । कथम् ? इन्द्रियव्यापारस्य कालस्य कूपसतां प्रति भेदकत्वेनाश्रयणातस्या अपि तत्कालत्वम्; ततश्चेन्द्रियव्यापारे भाविनि भविष्याद्विभक्तिः, वर्तमाने वर्तमानविभक्तिः, भूते भूतविभक्तिरिति सिद्धमिष्टम् । उक्तं च - सतामिन्द्रियसम्बन्धात्सैव सता विशेष्यते । भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥ अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते । यः समासादनाद्भेवः स तत्र न विवक्षितः ॥ इति ॥