वर्तमानसामीप्ये वर्तमानवद्वा

3-3-131 वर्तमानसामीप्ये वर्तमानवत् वा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

समीपमेव सामीप्यम्। ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादिसिद्ध्यर्थम्। वर्तमानसमीपे भूते भविष्यति च वर्तमानाद् धातोर्वर्तमानवत् प्रत्यया वा भवन्ति। <<वर्तमाने लट्>> ३.२.१२३ इत्यारभ्य यावद् <<उणादयो बहुलम्>> ३.३.१ इति वर्तमाने प्रत्यया उक्तः, ते भूतभविष्यतोर्विधीयन्ते। कदा देवदत्तागतोऽसि? अयमागच्छामि। आगच्छन्तमेव मां विद्धि। अयमागमम्। एषोऽस्म्यागतः। कदा देवदत्त गमिष्यसि? एष गच्छामि। गच्छन्तमेव मां विद्धि। एष गमिष्यामि। गन्तास्मि। वत्करणं सर्वसादृश्यार्थम्। येन विशेषणेन वर्तमाने प्रत्यया विहिताः प्रकृत्युपपदादिना तथैवात्र भवन्ति। पवमानः। यजमानः। अलंकरिष्णुः। सामीप्यग्रहणं किम्? विप्रकर्षविवक्षायां मा भूत्। परुदगच्छत् पाटलिपुत्रम्। वर्षेण गमिष्यति। यो मन्यते गच्छामीति पदं वर्तमाने काल एव वर्तते, कालान्तरगतिस्तु वाक्याद् भवति, न च वाक्यगम्यः कालः पदसंस्कारवेलायामुपयुज्यत इति, तादृशं वाक्यार्थप्रतिपत्तारं प्रति प्रकरणमिदं नारभ्यते। तथा च श्वः करिष्यति वर्षेण गमिष्यतीति सर्वमुपपद्यते॥

Siddhanta Kaumudi

Up

समीपमेव सामीप्यम् । स्वार्थे ष्यञ् ।वर्तमाने लट् <{SK2151}> इत्यारभ्य उणादयो बहुलं <{SK3169}> इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोऽसि । अयमागच्छामि । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गमिष्यामि वा ॥

Laghu Siddhanta Kaumudi

Up

वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः। कदागतोऽसि। अयमागच्छामि, अयमागमं वा। कदा गमिष्यसि। एष गच्छामि, गमिष्यामि वा॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वर्तमानसामीप्ये वर्तमानवद्वा>> - वर्तमानसामीप्ये । स्वर्थे प्यञिति । अस्मादेव निर्देशाच्चतुर्वर्णादेराकृतिगणत्वाद्वेति भावः । इत्यारभ्येति । तृतीयस्य द्वितीयेवर्तमान ल॑डित्यारभ्य आपादसमाप्तेःउणादयो बहुल॑मिति तृतीयपादादिमसूत्रात्पाग्वर्तमानाधिकारः । तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यो वर्तमाने प्रत्यया वहिताते सर्वे तेनैव विशेषणेन ताभ्यः प्रकृतिभ्यो वर्तमानसमीपकाले भूते भविष्यति च वा भवन्तीत्यर्थः । अत्र भूते भविष्यति चेत्यार्थिकं, तयोरेव वर्तमानसामीप्यसत्त्वात् । कदा आगतोऽसीत्यगतं प्रति प्रश्नः । अयमागच्छामित्युत्तरम् । अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः । वर्तमानसमीपकाले भूते लट् ।अय॑मित्यनेन आगमनकालीनं प्रस्वेदपरिकरबन्धादियुक्तं रूपं निर्दिश्यते इदानीमागमनं सूचयितुम् । आगममिति । वर्तमानवत्त्वाऽभावे भूते लुङ् । कदा गमिष्यसीति गमनात्प्राक् प्रश्ने, एष गच्छामीत्युत्तम् । अव्यवहितोत्तरकाले गमिष्यामीत्यर्थः । 'एष' इति तु अयमितिवद्वयाख्येयः । वर्तमानकालसमीपे भविष्यति लट् । गमिष्यामि वेति । वर्तमानवत्त्वाऽभावे भविष्यति लृट् ।

Padamanjari

Up

अत्र केचिद्व्याचक्षते - शमीपस्य भावः सामीप्यम्, भावे ष्यञ्, वर्तमानस्य सामीप्यं वर्तमानसामीप्यम्, षष्ठीसमासः, वर्तमानस्य भूतभविष्यन्तौ प्रति यत्सामीप्यं तत्र वर्तमानवत्प्रत्ययातिदेशोऽनर्थकः, ये हि वर्तमाने प्रत्ययास्ते समीपभूतेऽपि तस्मिन् भवन्त्येव, अतो वर्तमानं प्रति भूतभविष्यतोर्यत्सामीप्यं तदत्र वर्तमानसामीप्यमित्युच्यते, समीपद्वारकाच्च वर्तमानस्य सामीप्येनाभिसम्बन्धात्समासो नानुपपन्नः, यथा - देवदतस्य गुरुकुलमिति । गुणेन नेति प्रतिषेधोऽपि न भवति; यस्माद्गुणशब्दस्य सम्बन्धिशब्दत्वाद् गुणाक्षिप्तस्य गुणिन एव समासनिषेदः । न च वर्तमानः सामीप्यस्य गुणी, भूतभविष्यतोस्तद्गुणित्वात्' इति । तदिदं क्लिष्ट्ंअ व्याख्यानम्, ष्यञ्निर्देशश्च केवलं गौरवायैव स्यादित्यन्यथा व्याचष्टे - समीपमेव सामीप्यमिति । न चास्मिन् पक्षे ष्यञो वैयर्थ्यमित्याह - ष्यञः स्वार्थिकत्वं ज्ञाप्यत इति । स्वार्थेऽपि ष्यञ् भवतीति एतमर्थं ज्ञापयितुं ष्यञा निर्देशः कृतः इत्यर्थः । चातुर्वर्ण्यादिसिद्ध्यर्थमिति । आदिशब्देन चातुराश्रम्यम्, अन्यस्य भावोऽन्यभावः, अन्यभाव एवान्यभाव्यमित्येवमादीनां ग्रहणम् । कदा दएवदत आगतोऽसीति । भूतकालेन प्रश्नः, उदाहरणे भूतकालाभिव्यक्तयेऽयमेष इत्यागमनाविनाभूतं यद्रूपं श्वेतपरिकरबन्धादियुक्तं तद्रूपं प्रतिनिर्दिश्यते । इदानीमागममित्यर्थः । एवं च कदेति प्रश्ने चोतरं सङ्गच्छते, सामीप्यं च द्योतितं भवति । आगममिति । लुङ्, मिपोऽम्भावः, लृदित्वादङ् । कदा देवदत गमिष्यसीति । अत्रापि भविष्यत्कालेन प्रश्न उदाहरणे भविष्यत्कालाभिव्यक्तये । गन्तास्मीति । अनद्यतने लुट् । अत्रापि सामीप्यं यथासम्भवं द्रष्टव्यम् । अथ वत्करणं किमर्थम्, यावताऽसत्यपि तस्मिन् प्रत्ययाधिकाराद्वर्तमाने ये प्रत्यया विहितास्ते वर्तमानसामीप्ये भवन्तीत्येषोऽर्थो लभ्यत एव, नार्थो वत्करणेनात आह - वत्करणं सर्वसादृश्यार्थमिति । असति वत्करणे वर्तमाने ये प्रत्यया इत्यनेन प्रत्ययानां रूपमात्रं लक्ष्येत, ततश्च सङ्करोऽपि स्यात् - अन्यस्माद्धातोर्यो वर्तमाने विहितः प्रत्ययः स धात्वन्तरादपि स्यात् । वत्कणे तु सति सर्वसादृश्यावगतेः सङ्करो न भवति । सर्वसादृश्यावगतेः सङ्करो न भवति । सर्वसादृश्यमेव दर्शयति - येन विशेषणेनेति । आदिशब्देनोपाधेरभिधेयस्य च ग्रहणम् । पचमानो यजमान इति । वर्तमाने पूङ्यजोः शानन्विहितः, सामीप्ये स ताभ्यामेव भवति । अलङ्करिष्णुरिति । तच्छीलादिविशिष्टे कर्तर्यलम्पूर्वात्कृञ् इष्णुज्विहितः, स सामीप्येऽपि तस्मादेव तत्पूर्वादेव तस्मिन्नेवार्थे भवति । परुत् पूर्वस्मिन् संवत्सरे । यो हि मन्यते इत्यादिना प्रतिपतृविशेषं प्रति प्रकरणं प्रत्याचष्टे । कालान्तरगतिस्त्विति । कालान्तरं वर्तमानसमीपो भूतो भविष्यंश्च कालः तस्य या गतिःउ प्रतीतिः सा ठयं गच्छामिऽ इत्यतो वाक्यात्'कदा देवदत गमिष्यसि' इत्यस्योतरत्वेन प्रयुक्ताद्भवति, ततः किमित्यत्राह - न चेति । वाक्यार्थप्रतिपतारमिति । वाक्यार्थोऽयं न पदार्थ इति यः प्रतिपद्यते स वाक्यार्थप्रतिपता, कर्मणि षष्ठयाः समासः ।'कर्तरि च' इति प्रतिषेधस्त्वनित्यः;'जनिकर्तुः' इति निर्देशात्, शेषषष्ठ।ल वा समासः । प्रकरणमिति । इत आरभ्याष्टडसूत्री प्रकरणशब्देनोच्यते । तथा च श्वः करिष्यतीत्यादि । यदि वाक्यगम्योऽपि कालः पदसस्कार उपयुज्यते, तदा नैवमाद्यौपपद्यते - अनद्यतने लुटैव भवितव्यमिति कृत्वा ॥