3-3-130 अन्येभ्यः अपि दृश्यते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु युच् छन्दसि
अन्येभ्योऽपि धातुभ्यो गत्यर्थेभ्यश्छन्दसि विषये युच् प्रत्ययो दृश्यते। सुदोहनाम् (निरु० ११.४३) अकृणोद् ब्रह्मणे गाम्। सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् (ऋ० १०.११२.८)॥ भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज् वक्तव्यः॥ दुःशासनः। दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः। दुर्मर्षणः॥
गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् । सुवेदनामकृणोर्ब्रह्मणे गाम् (सु॒वे॒द॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम्) ॥
अन्येभ्योऽपि चातुभ्यो गत्यर्थेभ्य इति । गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्य इत्यर्थः । अथ वा नञोऽत्र प्रश्लेषः - अन्येभ्योऽपि धातुभ्यः, कोऽर्थः ? अगत्यर्थेभ्य इति । भाषायामिति ।'च्छन्दसि' इत्यधिकारादयमारम्भः ।'शासु अनुशिष्टौ' ,'युध संप्रहारे' , दृशिर्प्रेक्षणेऽ,'ञिधृषा प्रागलभ्ये' ,'मृष तितिक्षायाम्' ॥