3-3-127 कर्तृकर्मणोः च भूकृञोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्
index: 3.3.127 sutra: कर्तृकर्मणोश्च भूकृञोः
भवतेः करोतेश्च धातोः यथासङ्ख्यं कर्तरि कर्मणि च उपपदे, चकारादीषदादिषु च खल् प्रत्ययो भवति। ईषदाढ्यम्भवं भवता। दुराढ्यम्भवम्। ईषदाढ्यङ्करः। स्वाढ्यङ्करो देवदत्तो भवता। कर्तृकर्मणोश्च्व्यर्थयोरिति वक्तव्यम्। इह मा भूत्, स्वाढ्येन भूयते।
index: 3.3.127 sutra: कर्तृकर्मणोश्च भूकृञोः
कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञोः खल् स्यात् । यथासङ्ख्यं नेष्यते । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये ईषदादयस्तु ततः प्राक् ।<!कर्तृकर्मणोश्च्व्यर्थयोरिति वाच्यम् !> (वार्तिकम्) ॥ खित्त्वान्मुम् । अनाढ्येनाढ्येन दुःखेन भूयते दुराढ्यम्भवम् । ईषदाढ्यम्भवम् । स्वाढ्यम्भवम् । ईषदाढ्यङ्करः । दुराढ्यङ्करः । स्वाढ्यङ्करः । च्व्यर्थयोः किम् । आढ्येन सुभूयते ॥