खनो घ च

3-3-125 खनः घ च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

खनतेर्धातोः करणाधिकरणयोर्घः प्रत्ययो भवति, चकाराद् घञ् च। आखनः, आखानः॥ डो वक्तव्यः॥ आखः॥ डरो वक्तव्यः॥ आखरः॥ इको वक्तव्यः॥ आखनिकः॥ इकवको वक्तव्यः॥ आखनिकवकः॥

Siddhanta Kaumudi

Up

चाद्घञ् । आखनः । आखानः । घित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् । तेन भगः पदमित्यादि ॥<!खनेर्डडरेकेकवका वाच्याः !> (वार्तिकम्) ॥ आखः । आखरः । आखनिकः । आखनिकवकः । एते खनित्रवचनाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

घित्करणं किमर्थम्, यावता न खनः कश्चिदवयवः कुत्वभागस्ति ? ज्ञापनार्थं तु, एतज् ज्ञापयति - अन्येभ्योऽप्ययं भवतीति । तेन भजेर्भगः, पदेः पदम् - करणे घः,'खल सञ्चलने' अधिकरणे घः खल एवमादि सिद्धं भवति । आखनादयः खनित्रवचनाः ॥