उदङ्कोऽनुदके

3-3-123 उदङ्कः अनुदके प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उदङ्क इति निपात्यते, अनुदकविषयश्चेद् धात्वर्थो भवति। उत्पूर्वादञ्चतेर्घञ् निपात्यते। ननु च <<हलश्च>> ३.३.१२१ इति सिद्ध एव घञ्? उदके प्रतिषेधार्थमिदं वचनम्। तैलोदङ्कः। अनुदक इति किम्? उदकोदञ्चनः। घः कस्माद् न प्रत्युदाह्रियते? विशेषाभावात्। घञ्यपि थाथादिस्वरेणान्तोदात्त एव॥

Siddhanta Kaumudi

Up

उत्पूर्वादञ्चतेर्घञ् स्यात् न तूदके । घृतमुदच्यते उद्ध्रियतेऽस्मिन्निति घृतोदङ्कश्चर्ममयं भाण्डम् । अनुदके किम् । उदकोदञ्चनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

तैलमुदयच्यते, उद्ध्रियतेऽस्मिन्निति तैलोदकमुचर्ममयं भजनम् ॥ घः कस्मादिति ।'पुंसि संज्ञायाम्' इत्यादिना घे प्राप्ते घञ्विहितः, ततश्च तेन मुक्ते घ एव भवितुमर्हतीति भावः । विशेषाभावादिति । ननु घे सति प्रत्ययस्वरः घञि ञित्स्वरेणाद्यौदातः, तत्कथं विशेषाभावः ? स्तत्राह - घञ्यापहीत्यादि ॥