3-3-122 अध्यायन्यायोद्यावसंहाराधारावायाः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां
अध्यायादयः शब्दा घञन्ता निपात्यन्ते। <<पुंसि संज्ञायां०>> ३.३.११८ घे प्राप्ते घञ् विधीयते। अहलन्तार्थ आरम्भः। अधीयतेऽस्मिन्नित्यध्यायः। नीयतेऽनेनेति न्यायः। उद्युवन्त्यस्मिन्नित्युद्यावः। संह्रियन्तेऽनेनेति संहारः। आध्रियन्तेऽस्मिन्नित्याधारः। आवयन्त्यस्मिन्नित्यावायः। चकारोऽनुक्तसमुच्चयार्थः। अवहारः॥
अधीयतेऽस्मिन् अध्यायः । नियन्ति उद्यवन्ति संहरन्त्यनेनेति विग्रहः ॥<!अवहाराधारावायानामुपसङ्ख्यानम् !> (वार्तिकम्) ॥
आवयन्तीति । एत्यावयन्तीत्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति ।'घञ्विधाववहारावायानामुपसंख्यानम्' वार्तिकम् । वृत्तिकारस्तु आधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणावहारशब्दं साधयति स्म, विचित्रा हि वृतेः कृतिर्वृत्तिकारेण ॥