अवे तॄस्त्रोर्घञ्

3-3-120 अवे तॄस्त्रोः घञ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अव उपपदे तरतेः स्तृणातेश्च धातोः करणाधिकरणयोः संज्ञायां घञ् प्रत्ययो भवति। घस्यापवादः। ञकारो वृद्ध्यर्थः, स्वरार्थश्च। घकार उत्तरत्र कुत्वार्थः। अवतारः। अवस्तारः। कथमवतारो नद्याः, न हीयं संज्ञा? प्रायानुवृत्तेरसंज्ञायामपि भवति॥

Siddhanta Kaumudi

Up

अवतारः कूपादेः । अवस्तारो जवनिका ॥

Laghu Siddhanta Kaumudi

Up

अवतारः कूपादेः। अवस्तारो जवनिका॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अवतारःउरूपादिः, अवस्तारःउजवनिकादिः । नद्यवतारःउतीर्थम् । प्रायेणग्रहणानुवृतेरसंज्ञायामपि भवतीति । ननु घञ् विधेयः प्रधानम्, तस्य प्रायग्रहणमुपाधिः, ततश्च संज्ञायामेव क्वचिन्न भवतीत्यर्थः स्यात् ? एवं मन्यते - संज्ञायामित्युपाधेरेव प्रायग्रहणमुपाधिः । उपादेरुपाधिर्भवति, विशेषणस्यैव वा विशेषणमिति तु नाश्रीयते; लक्ष्यानुरोधादिति ॥