गोचरसंचरवहव्रजव्यजापणनिगमाश्च

3-3-119 गोचरसञ्चरवहव्रजव्यजापणनिगमाः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां घः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गोचरादयः शब्दा घप्रत्ययान्ता निपात्यन्ते पूर्वस्मिन्नेवार्थे। <<हलश्च>> ३.३.१२१ इति घञं वक्ष्यति, तस्यायमपवादः। गावश्चरन्त्यस्मिन्निति गोचरः। संचरन्तेऽनेनेति संचरः। वहन्ति तेन वहः। व्रजन्ति तेन व्रजः। व्यजन्ति तेन व्यजः। निपातनाद् <<अजेर्व्यघञपोः>> २.४.५६ इति वीभावो न भवति। एत्य तस्मिन्नापणन्त इत्यापणः। निगच्छन्ति तस्मिन्निति निगमः। चकारोऽनुक्तसमुच्चयार्थः। कषः। निकषः॥

Siddhanta Kaumudi

Up

घान्ता निपात्यन्ते । हलश्च <{SK3300}> इति वक्ष्यमाणस्य घञोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । सञ्चरन्त्यनेन सञ्चरो मार्गः । वहन्त्यनेन वहः स्कन्धः । व्रजः । व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनेन निगमश्छन्दः । चात्कषः । निकषः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गावश्चरत्यस्मिन्निति । रूढिशब्दोऽयं विषयपर्यायः, तस्य यथाकथंचिन्निर्वचनम् । तथा च गोचरः, इन्द्रिंयगोचर इत्याद्यपि । सञ्चरन्तेऽनेति ।'समस्तृतीयायुक्तात्' इत्यात्मनेपदम् । सञ्चरःउमार्गः, वहःउ स्कन्धः, व्रजःउगोष्ठम्, व्यजःउतालवृन्तम्, आपणःउ पण्यस्थानम्, निगमःउच्छन्दः । अयं योगः शक्योऽवक्तुम्, पूर्वेणैवघः सिद्धः ।'हलश्च' इति घञ् कस्मान्न भवति ? प्रायेणग्रहणं तत्रानुवर्तते, यथा - कषो निकष इत्यत्र घञ् न भवति, एवं गोचरादिष्वपि न भविष्यति ॥