भाववचनाश्च

3-3-11 भाववचनाः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति क्रियायां क्रियार्थायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भविष्यतीत्येव। <<भावे>>३.३.१८ इति प्रकृत्य ये घञादयो विहितास्ते च भाववचना भविष्यति काले क्रियायामुपपदे क्रियार्थायां भवन्ति। किमर्थमिदं यावता विहिता एव ते? क्रियार्थोपपदे विहितेनास्मिन्विषये तुमुना बाध्येरन्। वासरूपविधिश्चात्र नास्तीत्युक्तम् ३.३.१०। अथ वचनग्रहणं किमर्थम्? वाचका यथा स्युः। कथं च वाचका भवन्ति? याभ्यः प्रकृतिभ्यो येन विशेषणेन विहिताः, यदि ताभ्यस्तथैव भवन्ति, नासामञ्जस्येनेति। पाकाय व्रजति। भूतये व्रजति। पुष्टये व्रजति॥

Siddhanta Kaumudi

Up

भाव इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

वक्तीति वचनः,'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट्, करण एव वा - भाव उच्यते येन स भाववचनः । अत्र पुरुषाः कर्तारः, भावाधिकारविहिता एव भाववचना भवन्तीत्याह - भाव इति प्रकृत्येति । तुमुना बाध्येरन्निति । लृट् तु भावकर्मकर्तृषु त्रिषु विधानादसमानार्थः । किञ्चि, धात्वर्थस्य सिद्धतायां घञादयः, शुद्धे तु धात्वर्थे लकारः, अतोऽप्यसमानार्थत्वम् । इह'भावे' इत्येतावद्वक्तव्यम्, एवमपि ह्युच्यमाने भावे ये विहितास्ते क्रियायां क्रियार्थायामुपपदे भवन्तीत्यर्थो लभ्यत एव, तदपार्थकं वचनग्रहणमिति मत्वा पृच्छति - अथेति । वाचका यथा स्युरिति । वचनग्रहणे हि सति भाववचनाः सन्तो घञादयोऽस्मिन्विषये भवन्तीत्यर्थो भवति, भावस्य वाचकाः सन्तो भवन्तीत्यर्थः । एतदेव प्रश्नपूर्वकं विवृणोति - कथं चेति । याभ्य प्रकृतिभ्य इति । इवर्णान्तेभ्योऽच्, ऋवर्णान्तेभ्य उवर्णान्तेभ्यश्चाबिति । एवम् येन विशेषणेनेति ।'हस्तादाने चेरस्तेये' ,'श्रिणीभुवो' नुपसर्गेऽ इत्यादिना । असामञ्जस्यमुव्यतिकरः, अन्योऽन्यविषयावगाहनमिति यावत् । पाकायेत्यादौ'तुमर्थाच्च भाववचनात्' इति चतुर्थो ॥