3-3-118 पुंसि सञ्ज्ञायां घः प्रायेण प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च
करणाधिकरणयोरित्येव। पुँल्लिङ्गयोः करणाधिकरणयोरभिधेययोर्धातोर्घः प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। प्रायग्रहणमकार्त्स्न्यार्थम्। दन्तच्छदः। उरश्छदः पटः। अधिकरणे खल्वपि — एत्य तस्मिन् कुर्वन्ति इत्याकरः। आलयः। पुंसीति किम्? प्रसाधनम्। संज्ञायामिति किम्? प्रहरणो दण्डः। घकारः <<छादेर्घे०>> ६.४.९६ इति विशेषणार्थः॥
दन्तच्छद इति ।'च्छद आवरणे' चुरादिः'छादेर्घे' द्व्युपसर्गस्यऽ इति ह्रस्वः । एत्यास्मिन्कुर्वन्ति व्यवहारमित्याकरःउ उत्पत्तिस्थानम् ॥