कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम्

3-3-116 कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् नपुंसके भावे ल्युट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

येन कर्मणा संस्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते, तस्मिन् कर्मण्युपपदे धातोर्नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति। पूर्वेणैव सिद्धे प्रत्यये नित्यसमासार्थं वचनम्। उपपदसमासो हि नित्यः समासः। पयःपानं सुखम्। ओदनभोजनं सुखम्। कर्मणीति किम्? तूलिकाया उत्त्थानं सुखम्। संस्पर्शादिति किम्? अग्निकुण्डस्योपासनं सुखम्। कर्तुरिति किम्? गुरोः स्नापनं सुखम्। स्नापयतेर्न गुरुः कर्ता, किं तर्हि? कर्म। शरीरग्रहणं किम्? पुत्रस्य परिष्वञ्जनं सुखम्। सुखं मानसी प्रीतिः। सुखमिति किम्? कण्टकानां मर्दनं दुःखम्। सर्वत्रासमासः प्रत्युदाह्रियते॥

Siddhanta Kaumudi

Up

येन स्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयःपानं सुखम् । कर्तरीति किम् । गुरोः स्नापनं सुखम् । नेह गुरुः कर्ता किं तु कर्म ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कर्तुरिति कर्मणि षष्ठी । ठुभयप्राप्तौ कर्मणिऽ इति नियमाद्येनेति कर्तरि तृतीया, तदाह - येन कर्मणा संस्पृश्यमानस्येति । कस्य शरीरसुखमित्यपेक्षायां कर्तुः सन्निधानातस्यैव विज्ञायत इत्याह - कर्तुः शरीरसुखमुत्पद्यत इति । किमिदं शरीरस्य सुखमिति ? ननु शरीरव्यतिरिक्तस्यात्मनो धर्मः सुखम् ? सत्यम्; यस्मिन् सुखे समुत्पन्ने शरीरेऽपि स्वास्थ्यमुत्पद्यते तच्छरीरसुखमित्युच्यते । नित्यसमासार्थं वचनमिति । कथं तर्हि ठुभयप्राप्तौ कर्मणिऽ इत्यत्रोदाहृतम् - साधु खलु पयसः पानं देवदतेनेति ? यत्र प्रतिकूलतया सुखं नोत्पद्यते तत्र तदुदाहृतं द्रष्टव्यम् । पयः पानं सुखमिति । तत्र पानेन सुखं न स्पर्शेन, इदं तूदाहर्तुमुचितम् - चन्दनानुलेपनं सुखमिति ? नैषदोषः; यत्र संस्पर्शनमन्तरेण न सुखमुत्पद्यते तद्विषयोपलक्षणं संस्पर्शग्रहणम् । तत्र स्पर्शनादेव सुखं भवतु तत्पूर्वकात्पानादेर्वा सर्वत्र भविष्यति । तूलिकाया इति । तूलेन निर्मितः कशिपुस्तूलिका, तत्र शयित्वोत्थानं सुखम् । अग्निकुण्डस्योपासनमिति । अत्राग्निकुण्डेनास्पृश्यमानस्यैव सुखम् । गुरोः स्नापनमिति । यद्यप्यत्र गुरुः सुखानुभवस्य कर्ता, तथापि न तदत्राश्रितम्; अव्यभिचारात्, किं तर्हि ? ल्युट् प्रकृतौ यत्कर्तृत्वं तदाश्रितम्, तदाह - स्नापयतेर्न गुरुः कर्तेति । मानसी तु प्रीतिरिति । पुत्त्रेण बलवत्परिष्वज्यमानस्य शरीरतोद एव भवति, मानसी तु प्रीतिः । ननु प्रत्युदाहरणेष्वपि सर्वत्र ल्युट् प्रयुज्यते, तत्कथं प्रत्युदाहरणत्वम् ? तत्राह - सर्वत्रासमासः प्रत्युदाह्रियत इति ॥