नपुंसके भावे क्तः

3-3-114 नपुंसके भावे क्तः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नपुंसकलिङ्गे भावे धातोः क्तः प्रत्ययो भवति। हसितम्। सहितम्। जल्पितम्॥

Siddhanta Kaumudi

Up

क्लीबत्व विशिष्टे भावे कालसामान्ये क्तः स्यात् । जल्पितम् । शयितम् । हसितम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नपुंसके भावे क्तः>> - नुपंसके भावे क्तः । कालसामान्ये इति । अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः । अकर्मकेभ्य एव नपुंसके भावे क्तः, नतु सकर्मकादितिणेरध्ययने वृत्त॑मिति सूत्रे भाष्यकैयटयोः स्पष्टम् । तद्ध्वनयन्नकर्मकेभ्य एवोदाहरति — जल्पितमित्यादि । गतं भुक्तमित्यादौ त्वविक्षितकर्मकत्वादकर्मककत्वं बोध्यम् । अत एव गतं हंसस्य, भुक्तमोदनस्येत्यादौ शेषत्वविक्षया षष्ठीति दिक् ।

Padamanjari

Up

ननु च'तयोरेव कृत्यक्तखलर्थाः' इति नपुंसके भावे क्तः सिद्धः ? सत्यं भूते सिद्धः, कालसामान्ये तु नपुंसके न प्राप्नोतीत्ययमारम्भः । इह सकर्मकेभ्योऽपि यथा भावे घञादयो भवन्ति - ओदनस्य पाकः, ओदनस्य भोजनमिति, तथायमपि क्तः सकर्मकेभ्यो भावे भवति; अत्राकर्मकेभ्य इत्यवचनादिति केचिदाहुः । अथ तदा कर्मणि का विभक्तिर्भवति ? कृद्योगलक्षणा कर्मणि षष्ठी । सा निष्ठायोगे प्रतिषिध्यते ? नपुंसके भावे उपसंख्यानमिति षष्ठी भविष्यति - ओदनस्य भुक्तमुदकस्य पीतमिति । अस्मिन्पक्ष एतदर्थोप्ययमारम्भः, न हि तयारेवेत्यनेन सकर्मकेभ्यो भावे क्तः सिद्ध्यति । अन्ये तु तयोरेवेत्येतदस्यापि क्तस्य विषयव्यवस्थापकं मन्यन्ते । तद्धि'निष्ठा' इति विहितस्य क्तस्य भावमर्थं विद्यते, ठकर्मकेभ्यःऽ इति च विषयं व्यवस्थापयति । अस्य तु'भावे क्तः' इत्यनुवादेनाकमकेभ्य इति विषयं व्यवस्थापयति ॥