पर्यायार्हर्णोत्पत्तिषु ण्वुच्

3-3-111 पर्यायार्हणोत्पत्तिषु ण्वुच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पर्यायः परिपाटी क्रमः। अर्हणमर्हः, तद्योग्यता। ऋणं तत्, यत् परस्य धार्यते। उत्पत्तिर्जन्म। एतेष्वर्थेषु धातोर्ण्वुच् प्रत्ययो भवति। क्तिन्नादीनामपवादः। पर्याये तावत् — भवतः शायिका। भवतोऽग्रग्रासिका। अर्हे — अर्हति भवानिक्षुभक्षिकाम्। ऋणे — इक्षुभक्षिकां मे धारयसि। ओदनभोजिकाम्। पयःपायिकाम्। उत्पत्तौ — इक्षुभक्षिका मे उदपादि। ओदनभोजिका। पयःपायिका। विभाषेत्येव — चिकीर्षोत्पद्यते। ण्वुलि प्रकृते प्रत्ययान्तरकरणं स्वरार्थम्॥

Siddhanta Kaumudi

Up

पर्यायः परिपाटीक्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुकामर्हति । ऋणे । इक्षुभक्षिकां मे धारयति । उत्पत्तौ । उक्षुभक्षिका उपपादि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

परिपाटीति । पटेः परिपूर्वात् ठिणजादिभ्यःऽ इति इण् तदन्तात्'कृदिकाराक्तिनः' इति ङीष् । तद्योरयतेति । तच्छब्देन धात्वर्थ उच्यते । परस्मै इति ।'धारेरुतमर्णः' इति सम्प्रदानसंज्ञा । परस्येति तु पाठे परस्य विस्त्वित्यर्थः । धार्यतेउबाध्यते । ग्राममामिकेति । कर्मणि षष्ठयाः समासः । उदपादीति ।'चिण् ते पदः' इति कर्तरि चिण् । स्वरार्थमिति ।'चितः' इत्यन्तोदातत्वं यथा स्यात् । ण्वुलि तु'लिति' इति प्रत्ययात्पूर्वमुदातं स्यात् ॥