3-3-110 विभाषा आख्यानपरिप्रश्नयोः इञ् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां ण्वुल्
index: 3.3.110 sutra: विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च
पूर्वं परिप्रश्नः, पश्चादाख्यानम्। सूत्रेऽल्पाच्तरस्य पूर्वनिपातः। परिप्रश्ने आख्याने च गम्यमाने धातोः इञ् प्रत्ययो भवति, चकारात् ण्वुलपि। विभाषाग्रहणात् परोऽपि यः प्राप्नोति, सोऽपि भवति। कां त्वं कारिमकार्षीः, कां कारिकामकार्षीः, कां क्रियामकार्षीः, कां कृत्यामकार्षीः, कां कृतिमकार्षीः? सर्वां कारिमकार्षम्, सर्वां कारिकामकार्षम्, सर्वां क्रियामकार्षम्, सर्वां कृत्यामकार्षम्, सर्वां कृतिमकार्षम्। कां गणिमजीगणः, कां गणिकामजीगणः, कां गणनामजीगणः? सर्वां गणिमजीगणम्, सर्वां गणिकाम्, सर्वां गणनाम्। एवं कां याजिम्, कां याजिकाम्, कां याचिम्, कां यचिकाम्, कां पाचिम्, कां पाचिकाम् कां पचाम्, कां पक्तिम्, कां पाठिम्, कां पाठिकाम्, कां पठितिम् इति द्रष्टव्यम्। आख्यानपरिप्रश्नयोः इति किम्? कृतिः। हृतिः।
index: 3.3.110 sutra: विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च
परिप्रश्ने आख्याने च गम्ये इञ् स्याच्चात् ण्वुल् । विभाषोक्तेर्यथाप्राप्तमन्येऽपि । कां त्वं कारिं कारिकां क्रियां कृत्यां कृतिं वाकार्षी । सर्वां कारिं कारिकां क्रियां कृत्यां कृति वाऽकार्षम् । एवं गणिं गणिकां गणनाम् । पाचिं पाचिकां पचां पक्तिम् ॥
index: 3.3.110 sutra: विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च
ननु पूर्वं परिप्रश्नः, पश्चादाख्यानं भवति, तत्कथं क्रमव्युदासेन सूत्रे पूर्वमाख्यानस्य निर्देशः, पश्चात्परिप्रश्नस्य ? तत्राह - पूर्वं परिप्रश्न इत्यादि । सत्यं पूर्वं प्रश्नः पश्चादाख्यानमिति, सूत्रे तु लक्षणवशाद्विपर्यय आश्रित इत्यर्थः । स्वयं तु व्यत्स्यासेन व्याचक्षाणोऽर्थक्रमेण व्याचष्टे, उदाहरति च । कारिकामिति । ण्वुल् । क्रियां कृत्यामिति ।'कृञः श च' , चकारात्क्यप्च । कृतिमिति । योगविभागात् क्तिन् । गणिमिति ।'गण सङ्ख्याने' चुरादिरदन्तः । गणनामिति । युच् । एवमित्यादि । कां पाचिकां, पचाम् । षित्वादङ् । पक्तिः -'स्थागापापच' इति क्तिन् । कां याजि याजिकामिम् । कां पाठि पाठिकां पठितिम् । तितुत्रेष्वग्रहादीनामिति वचनादिट् ॥