ण्यासश्रन्थो युच्

3-3-107 ण्यासश्रन्थः युच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ण्यन्तेभ्यो धातुभ्यः, आस श्रन्थ इत्येताभ्यां च स्त्रियां युच् प्रत्ययो भवति। अकारस्यापवादः। कारणा। हारणा। आसना। श्रन्थना। कथमास्या? <<ऋहलोर्ण्यत्>> ३.१.१२४ भविष्यति। वासरूपप्रतिषेधश्च स्त्रीप्रकरणविषयस्यैवोत्सर्गापवादस्य। श्रन्थिः क्र्यादिर्गृह्यते — <<श्रन्थ विमोचनप्रतिहर्षयोः>> इति, न चुरादिः — <<श्रन्थ ग्रन्थ संदर्भे>> इति, ण्यन्तत्वेनैव सिद्धत्वात्॥ घट्टिवन्दिविदिभ्य उपसंख्यानम्॥ घट्टना। वन्दना। वेदना। घट्टेर्भौवादिकस्य ग्रहणं <<घट्ट चलने>> इति, न चौरादिकस्य <<घट्ट संवरणे>> इत्यस्य ग्रहणम्, तस्य णेरित्येव सिद्धत्वात्॥ इषेरनिच्छार्थस्य युज्वक्तव्यः॥ अध्येषणा। अन्वेषणा ॥ परेर्वा ॥ पर्येषणा। परीष्टिः॥

Siddhanta Kaumudi

Up

अकारस्यापवादः । कारणा । हारणा । आसना । श्रन्थना ॥<!घट्टिवन्दिविदिभ्यश्चेति वाच्यम् !> (वार्तिकम्) ॥ घट्टना । वन्दना । वेदना ॥<!इषेरनिच्छार्थस्य !> (वार्तिकम्) ॥ अन्वेषणा ॥<!परेर्वा !> (वार्तिकम्) ॥ पर्येषणा । परीष्टिः ॥

Laghu Siddhanta Kaumudi

Up

अकारस्यापवादः। कारणा। हारणा॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ण्यद्भविष्यतीति । ननु वासरूपविधिना ण्यत्स्यात् स चास्त्रियामिति प्रतिषिद्धः ? तत्राह - वासरूपप्रतिषेधश्चेति । उत्सर्गापवादस्येति । समाहारद्वन्द्वः । द्वयोरप्युत्सर्गापवादयोः स्त्र्यधिकारावस्थितयोरित्यर्थः । घट्टिवन्दिविदिभ्यश्चेति । विदिर्लाभार्थो गृह्यते, न ज्ञानार्थः;'विद चेतनाख्याननिवासेषु' इत्यस्यैव चुरादेर्वेदनेति ज्ञाने सिद्धत्वात् । न च वेतेः क्तिनो निवृत्यर्थं वचनम्; संवितिरिति दर्शनात् । अन्वेषणेति । ठिष आभीक्ष्ण्येऽ ठिषगतौऽ इति वा । युचश्चकारश्चिन्त्यप्रयोजनः, ठुदातःऽ इति हि वर्तते तत्सामर्थ्यादन्तोदातत्वं भविष्यति; प्रत्ययस्वरैणैवाद्यौदातत्वसिद्धेः ॥