चिन्तिपूजिकथिकुम्बिचर्चश्च

3-3-105 चिन्तिपूजिकथिकुम्बिचर्चः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां अङ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<चिति स्मृत्याम्>> <<पूज पूजायाम्>> <<कथ वाक्यप्रबन्धे>> <<कुबि आच्छादने>> <<चर्च अध्ययने>> चुरादिः। एभ्यो धातुभ्यो युचि प्राप्ते स्त्रियामङ् प्रत्ययो भवति। चिन्ता। पूजा। कथा। कुम्बा। चर्चा। चकाराद् युजपि भवति। चिन्तना॥

Siddhanta Kaumudi

Up

अङ् स्याद्युचोपवादः । चिन्ता । पूजा । कथा । कुम्बा । चर्चा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

युचि प्राप्त इति । सर्वेषामेव ण्यन्तत्वात् । कुम्ब्राउअग्रम् । ठुदीचीनकुम्बां शम्याम्ऽ इति हि दृश्यते । चकारोऽनुक्तसमुच्चयार्थः - तुलयतेस्तुला । अथ'गुरोश्च हलः' इत्यस्यानन्तरं कस्मान्न कृतम्, किमङ्विधानेन ? तत्राऽपि कर्तव्यम्, को न्वत्र विशेषः । अपर आह - अङ्विधानसामर्थ्यात्पक्षे णिलोपो न भवति, चिन्तियेत्यादि भवतीति, नात्राप्तभाषितमस्ति ॥