अ प्रत्ययात्

3-3-102 अ प्रत्ययात् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां

Kashika

Up

index: 3.3.102 sutra: अ प्रत्ययात्


प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययो भवति। क्तिनोऽपवादः। चिकीर्षा। जिहीर्षा। पुत्रीया। पुत्रकाम्या। लोलूया। कण्डूया।

Siddhanta Kaumudi

Up

index: 3.3.102 sutra: अ प्रत्ययात्


प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या ॥

Laghu Siddhanta Kaumudi

Up

index: 3.3.102 sutra: अ प्रत्ययात्


प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्। चिकीर्षा। पुत्रकाम्या॥