इच्छा

3-3-101 इच्छा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां श च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इषेर्धातोः शः प्रत्ययो यगभावश्च निपात्यते। इच्छा॥ परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्। परिचर्या। परिसर्या। मृगया। अटाट्या॥ जागर्तेरकारो वा॥ जागरा। जागर्या॥

Siddhanta Kaumudi

Up

ईषेर्भावे शो यगभावश्च निपात्यते । इच्छा ॥<!परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् !> (वार्तिकम्) ॥ शो यक् च निपात्यते । परिचर्या पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । शे यकि णिलोपः । मृगया । अटतेः शे यकि ट्यशब्दस्य द्वित्वं पूर्वभागे यकारनिवृत्तिर्दीर्घश्च । अटाट्या ॥<!जागर्तेरकारो वा !> (वार्तिकम्) ॥ पक्षे शः । जागरा । जागर्या ॥

Laghu Siddhanta Kaumudi

Up

इषेर्निपातोऽयम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

इषेर्धातोरिति । ठिषु इच्छायाम्ऽ इत्यस्माद्भावे शप्रत्ययो भवतीति; न त्वकर्तरि कारके, स्वभावात् । परिचर्येत्यादि । परिचर्यादीनामपि निपातनस्योपसंख्यानम्, परिचर्यादयोऽपि शप्रत्ययान्ता निपातयितव्या इत्यर्थः । तत्र सर्वत्र शप्रत्ययो यक्च निपात्यते । परिचर्याउपूजा । परिसर्याउ परिसरणम्, अत्र गुणोऽपि निपात्यते ।'मृग अन्वेषणे' चुरादावदन्तः, अत्रातो लोपाभावः; निपातनात् । शे यकिणिलोपः - मृगया । अटतेः शे यकि यका सह टकारस्य द्विर्वचनम्, पूर्वभागे यकारस्य निवृत्तिर्दीर्घत्वमित्येतत्सर्वं निपात्यते । हलादिशेषस्तु नास्ति; षाष्ठिके द्विर्वचनेऽभ्याससंज्ञाविधानाद् । यदा त्वट।ल्र्त्यसूर्णोतीनामिति यङ्न्तात् ठप्रत्ययात्ऽ इत्यकारः, तदातो लोपे यलोपे चाटाटेति भवति । जागर्तेरकारो वेति । वाशब्दात्पक्षे शः, तदा सार्वधातुके यक्,'जाग्रो' विचिण्णल्ङ्त्सुऽ ईति गुणः ॥