मतिबुद्धिपूजार्थेभ्यश्च

3-2-188 मतिबुद्धिपूजार्थेभ्यः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्तः

Kashika

Up

index: 3.2.188 sutra: मतिबुद्धिपूजार्थेभ्यश्च


मतिः इच्छा। बुद्धिः ज्ञानम्। पूजा सकारः। एतदर्थेभ्यश्च धातुभ्यो वर्तमानार्थे क्तप्रत्ययो भवति। राज्ञां मतः। राज्ञाम् इष्टः। राज्ञां बुद्धः। राज्ञां ज्ञातः। राज्ञां पूजितः। राज्ञामर्चितः। अनुक्तसमुच्चयार्थश्चकारः। शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि। रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि। 1। हृष्टतुष्टौ तथा कान्तस् तथोभौ संयतोद्यतौ। कष्टं भविष्यति इत्याहुरमृतः पूर्ववत् समृतः। 2। कष्टः इति भविष्यति काले। अमृतः इति पूर्ववत्। वर्तमाने इत्यर्थः। तथा सुप्तः, शयितः, आशितः, लिप्तः, तृप्तः इत्येवमादयोऽपि वर्तमाने दृअष्टव्याः। इतिश्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य द्वितीयः पादः। तृतीयाध्यायस्य तृतीयः पदः।

Siddhanta Kaumudi

Up

index: 3.2.188 sutra: मतिबुद्धिपूजार्थेभ्यश्च


मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजितः । अर्चितः । चकारोऽनुक्तसमुच्चयार्थः । शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट इत्यादि ॥

Balamanorama

Up

index: 3.2.188 sutra: मतिबुद्धिपूजार्थेभ्यश्च


मतिबुद्धिपूजार्थेभ्यश्च - मतिबुद्धि । मति, बुद्धि, पूजा , अर्थ एषामिति विग्रहः । 'वर्तमाने क्त' इति शेष- ।तयोरेवे॑ति भावकर्मणोरेव । मतः इष्ट इति । इच्छार्थकान् मनेरिषेश्च क्तः ।तीषसहे॑ति वेट्कत्वात्यस्य विभाषे॑ति नेट् । शीलितो रक्षित इति । भाष्यस्थश्लोकोऽयम् । इत्यादीति । आदिनारुष्टश्च रुषितश्चोभावभिव्याह्मत इत्यपि । ह्मष्टतुष्टो तथाक्रान्तस्तथोभौ संयतोद्यतौ । कष्टं भविष्यतीत्याहुरमृतः पूर्ववत्स्मृतः॑ । इति सङ्ग्रहः । कष्टशब्दो भविष्यति, अमृतशब्दो वर्तमाने इत्यर्थः ।

Padamanjari

Up

index: 3.2.188 sutra: मतिबुद्धिपूजार्थेभ्यश्च


मतिबुद्धिपूजार्थेभ्यश्च॥ मतिरिच्छेति। बुद्धेः पृथगुपादानाद् बुद्धिर्न गृह्यते। मत इति। ठनुदातोपदेशऽ इत्यनुनासिकलोपः। शीलित इत्यादि।'शील समाधौ' ,रक्ष पालनेऽ'क्षमूष् सहने' 'क्रुश आह्वाने रोदने च' 'जुषी प्रीतिसेवनयोः' ,रुष रोषेऽ'हृञ् हरणे' ;ठ्हृषु अलीकेऽ'हृष् तुष्टौ' इति वा;'तुष तुष्टौ' 'कमु कान्तौ' 'यम उपरमे' 'कष हिंसायाम्' मृङ् प्राणत्यागेऽ। तत्राद्यौ सेटौ, उदितामुदितां च'यस्य विभाषा' इतीट्प्रतिषेधः, ईदितः'श्वीदितो निष्ठायाम्' इति। हृष्ट इति।'हृषेर्लोमसु' इति। कषेः'कृच्छ्रगहनयोः कषः' इति। रुषेः रुष्यमत्वरसंधुषास्वनाम्ऽ इति विकल्पः। सुप्त इति। सुपेः'त्रीतः क्तः' इत्येव सिद्धे नजिङ तच्छीलादिषु बाद्या मा भूदिति समुच्चीयते। क्वचितु सृप्त इति पठ।ल्ते॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यो तृतीयस्याध्यायस्य द्वितीयः पादः॥