3-2-94 दृशेः क्वनिप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते
index: 3.2.94 sutra: दृशेः क्वनिप्
कर्मणि इत्येव। दृशेः धातोः कर्मणि उपपदे क्वनिप् प्रत्ययो भवति। मेरुदृश्वा। परलोकदृश्वा। अन्येभ्योऽपि दृश्यन्ते 3.2.75 इति क्वनिपि सिद्धे पुनर्वचनं प्रत्ययान्तरनिवृत्त्यर्थम्।
index: 3.2.94 sutra: दृशेः क्वनिप्
कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ॥
index: 3.2.94 sutra: दृशेः क्वनिप्
कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥
index: 3.2.94 sutra: दृशेः क्वनिप्
दृशेः क्वनिप् - दृशेः क्वनिप् ।आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यन्ते॑ इत्येव क्वनिपि सिद्धे तत्सहचरितमनिनादिव्यावृत्त्यर्थमिदं, सोपपदाऽणादिबाधनार्थं च । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवाऽत्र पुनः क्विब्ग्रहणेन निवृत्तेः । पारं दृष्टवान् ।
index: 3.2.94 sutra: दृशेः क्वनिप्
द्दशेः क्वनिप्॥ प्रत्ययान्तरनिवृत्यर्थमिति। प्रत्ययान्तरं सह निर्दिष्ट्ंअ मनिनादि, अणादि च। सोपपदान्निष्ठा तु भवत्येव - पलोकं द्दष्टवानिति॥