कर्मणीनिविक्रियः

3-2-93 कर्मणि इनिविक्रियः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मण्युपपदे विपूर्वात् क्रीणातेर्धातोरिनिः प्रत्ययो भवति। कर्मणीति वर्तमाने पुनः कर्मग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात्, कर्ममात्रे मा भूत्। सोमविक्रयी। रसविक्रयी। इह न भवति — धान्यविक्रायः॥

Siddhanta Kaumudi

Up

कर्मण्युपपदे विपूर्वात्क्रीणातेरिनिः स्यात् ।<!कुत्सितग्रहणं कर्तव्यम् !> (वार्तिकम्) ॥ सोमविक्रयी । घृतविक्रयी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कर्मणीनिविक्रियः>> - कर्मणीनि विक्रियः । 'इनि' इत्यविभक्तिकम् । विपूर्वस्य क्रीञ्धातोर्विक्रिय इति पञ्चम्यन्तम् । कुत्सितेति । कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः । सोमविक्रयीति । सोमद्रव्यं च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः ।

Padamanjari

Up

कर्मणीनिविक्रियः॥ कर्मणीति वर्तमान इति।'कर्मणि हनः' इत्यतः कर्तुः कुत्सानिमिते कर्मणीति यत्कर्म क्रियासम्बद्धं कर्तुः कुत्सामावहति तत्रेत्यर्थः। सोमादीनां विक्रयः शास्त्रे निषिद्धः॥