3-2-92 कर्मणि अग्न्याख्यायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते कर्मणि क्विप्
चेः कर्मणीति वर्तते। कर्मण्युपपदे चिनोतेः कर्मण्येव कारके क्विप् प्रत्ययो भवति अग्न्याख्यायाम्, धातूपपदप्रत्ययसमुदायेन चेदग्न्याख्या गम्यते। श्येन इव चीयते श्येनचित्। कङ्कचित्। आख्याग्रहणं रूढिसंप्रत्ययार्थम्। अग्न्यर्थो हीष्टकाचय उच्यते श्येनचिदिति॥
कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ॥
<<कर्मण्यग्न्याख्यायाम्>> - कर्मण्यग्न्याख्यायाम् । कर्मणीत्यनुवृत्तमुपपदसमर्पकम् । अत्रत्यं तु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम् । तथा चाऽत्र कर्तरीति न सम्बध्यते । तदाह — कर्मण्युपपदे इत्यादि । चिनोतेरिति । भूतार्थादित्यपि बोध्यम् । श्येन इवेति । श्येनशब्दः श्येनसदृशे लाक्षणिक इति भावः । श्येनाकृतिक इति यावत् ।
कर्मण्यग्न्याख्यायाम्॥'कर्मणि हनः' इत्यतोऽनुवृतं कर्मग्रहणमुपपदम्, इदं तु कर्मप्रत्ययार्थमित्याह - कमण्येव कारक इति। एवकारः पौनर्वचनिकः। उपपदं तावत्कर्मप्रत्ययार्थोऽपि कर्मैवेति। आख्याग्रहणं रूढिसम्प्रत्ययार्थमिति। अग्निशब्दो लोके ज्वलने रूढः, वेदे त्वग्न्यर्थ इष्टकाचयेऽपि प्रचुरः प्रयोगः - य एवं विद्विअनग्निं चिनुते, अग्निं चेष्यमाण इति, स मुख्यो जघन्यो वा भवतु; इह त्वसत्याख्याग्रहणे लोकप्रसिद्धिवशेन ज्वलन एव गृह्यएत, मा ग्राहि, इष्टकाचय एव गृह्यतामित्याख्याग्रहणमित्यर्थः॥