सोमे सुञः

3-2-90 सोमे सुञः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते कर्मणि क्विप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मणीति वर्तते। सोमे कर्मण्युपपदे सुनोतेर्धातोः क्विप् प्रत्ययो भवति। सोमसुत्, सोमसुतौ, सोमसुतः। अयमपि नियमार्थ आरम्भः। चतुर्विधश्चात्र नियम इष्यते। धातुकालोपपदप्रत्ययविषयः॥

Siddhanta Kaumudi

Up

सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सोमे सुञः>> - समो सुञः । सोमे कर्मण्युपपदे भूते सुनोतेः क्विबित्यर्थः । चतुर्विध इति । पूर्ववद्व्याख्येयम् । एवमिति ।अग्नौ चे॑रित्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः ।

Padamanjari

Up

सोमे सुञः॥ कालधातूपपदप्रत्ययविषय इति। तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान्सोमसाव इत्यण् न भवति। तथा धातोः सोम एवोपपदे नियतत्वात्सुरां सुतवान्सुरासाव इत्यणेव भवति। तथा सोमस्य सुनोतावेव धातौ नियतत्वात्सोमं क्रीतवान् सोमक्रीरिति क्विब् न भवति, अणेव तु भवति। तथा क्विपो भूते नियतत्वात्सोमं सुनोति सोष्यति वेति विवक्षायां क्विब् न भवति, अणेव तु भवति॥