सुकर्मपापमन्त्रपुण्येषु कृञः

3-2-89 सुकर्मपापमन्त्रपुण्येषु कृञः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते कर्मणि क्विप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मणीति वर्तते, तदसंभवात् सुशब्दं वर्जयित्वा परिशिष्टानां विशेषणं भवति। स्वादिषु कर्मसूपपदेषु करोतेर्धातोः क्विप् प्रत्ययो भवति। सुकृत्। कर्मकृत्। पापकृत्। मन्त्रकृत्। पुण्यकृत्। अयमपि नियमार्थ आरम्भः। त्रिविधश्चात्र नियम इष्यते। धातुनियमं वर्जयित्वा कालोपपदप्रत्ययनियमः। धातोरनियतत्वादन्यस्मिन्नप्युपपदे भवति। शास्त्रकृत्। भाष्यकृत्॥

Siddhanta Kaumudi

Up

सौ कर्मादिषु च कृञः क्विप्स्यात् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । क्विबेवेति नियमात्कर्म कृतवानित्यत्राण्न । कृञ एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः । अत्र न क्विप् । भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न क्विप् । स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप् । शास्त्रकृत् । भाष्यकृत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सुकर्मपापमन्त्रपुण्येषु कृञः>> - सुकर्म.सु, कर्म, पाप, मन्त्र, पुण्य एषां पञ्चानां द्वन्द्वः । त्रिविध इति ।सुकर्मादिषु भूते कृञः क्विबेवे॑ति,सुकर्मादिषु भूते कृञ एव क्विबिति,सुकर्मादिषु भूते कृञ एव क्वि॑बितिसुकर्मादिषु भूत एव कृञ॑ इति त्रिविध इत्यर्थः । अण् नेति । क्तवतुस्तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेरिति भावः । स्वादिष्वेवेति । सुकर्मादिषु पञ्चस्वित्यर्थः ।

Padamanjari

Up

सुकर्मपापमन्त्रपुण्येषु कृञः॥ स्वादिष्विति। सुशब्दं वर्जयित्वेत्यनन्तरमेवाभिधानादतद्गुणसंविज्ञानो बहुव्रीहिः, बाहुल्याश्रयणेनैवमुक्तम्, आढ्यो ग्राम इतिवत्। त्रिविधश्चेति। एतद्वहुलग्रहणानुवृतेरेव लभ्यते। कालोपपदप्रत्ययविषय इति। तत्र कालनियमात्कर्म कृतवान्कर्मकार इत्यण् न भवति। उपपदनियमात् मन्त्रमधीमधीतवान्मन्त्राध्याय इत्यणेव भवति, न तु क्विप्। प्रत्ययनियमात् मन्त्रं करोति करिष्यति वेति विवक्षायामणेव भवति, न तु क्विप् शास्त्रकृदिति।'क्विप् च' इति क्विप्॥