हरतेरनुद्यमनेऽच्

3-2-9 हरतेः अनुद्यमने अच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हरतेर्धातोरनुद्यमने वर्तमानात् कर्मण्युपपदेऽच् प्रत्ययो भवति। अणोऽपवादः। उद्यमनमुत्क्षेपणम्। अंशं हरतीत्यंशहरः। रिक्थहरः। अनुद्यमन इति किम्? भारहारः॥ अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसंख्यानम्॥ शक्तिग्रहः। लाङ्गलग्रहः। अङ्कुशग्रहः। यष्टिग्रहः। तोमरग्रहः। घटग्रहः। घटीग्रहः। धनुर्ग्रहः ॥ सूत्रे च धार्यर्थे॥ सूत्रग्रहः। सूत्रं धारयतीत्यर्थः। सूत्रग्राह एवान्यः॥

Siddhanta Kaumudi

Up

अंशहरः । अनुद्यमने किम् । भारहारः ।<!शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसंख्यानम् !> (वार्तिकम्) ॥ शक्तिग्रहः । लाङ्गलग्रहः । सूत्रे च धार्येऽर्थे ॥ सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव । सूत्रग्राहः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

हरतेरनुद्यमनेऽच्॥ अच्प्रकरण इति। लिङ्गविशिष्टपरिभाषयैव घटग्रहणेन घटीग्रहणेऽपि सिद्धे घटीग्रहणम् परिभाषाया अनित्यत्वज्ञापनार्थम्। सूत्रग्राह एवान्य इति। यस्सूत्रं केवलमुपादते, न तु धारयति तत्राणेव भवतीत्यर्थः॥