गापोष्टक्

3-2-8 गापोः टक् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मण्यनुपसर्ग इति वर्तते। गायतेः पिबतेश्च धातोः कर्मण्युपपदेऽनुपसर्गे टक् प्रत्ययो भवति। कस्यापवादः। शक्रं गायति शक्रगः। सामगः। शक्रगी। सामगी॥ सुराशीध्वोः पिबतेरिति वक्त व्यम्॥ सुरापः। सुरापी। शीधुपः। शीधुपी। सुराशीध्वोरिति किम्? क्षीरपा ब्राह्मणी। पिबतेरिति किम्? सुरां पातीति सुरापा। अनुपसर्ग इत्येवशक्रसंगायः। सामसंगायः॥ बहुलं छन्दसीति वक्त व्यम्॥ या ब्राह्मणी सुरापी भवति, नैनां देवाः पतिलोकं नयन्ति। या ब्राह्मणी सुरापा भवति, नैनां देवाः पतिलोकं नयन्ति॥

Siddhanta Kaumudi

Up

अनुपसृष्टाभ्यामाभ्यां टक् स्यात्कर्मण्युपपदे । सामगः । सामगी । उपसर्गे तु सामसंगायः ॥<!पिबतेः सुराशीध्वोरिति वाच्यम् !> (वार्तिकम्) ॥ सुरापी । शीधुपी । अन्यत्र क्षीरपा ब्राह्मणी । सुरां पाति रक्षतीति सुरापा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गापोष्टक्>> - गापोष्टक् । 'गै शब्दे' 'पा पाने' इत्यनयोः टक् स्यात्कर्मण्युपपदे । आतो युकि रूपम् । पिबतेरिति । वार्तिकमिदम् । पाधातोः सुराशीध्वोरुपपदयोः टक् स्यादित्यर्थः । क्षीरपेति । क्षीरं पिबतीत्यर्थे सुराशीध्वोर्नयतरत्वाऽभावात् 'आतोऽनुपसर्गे कः' इति कप्रत्यये टाप् । पाति रक्षतीति । अजित्यर्थः । उद्यमनम् - उद्ग्रहणम् । अंशहर इति । अंशस्य स्वीकर्तेत्यर्थ- । भारहार इति । भारमुद्गृह्णातीत्यर्थः । ग्रहेरुपसङ्ख्यानमिति ।अच्प्रत्ययस्ये॑ति शेषः । 'ग्रह उपादाने' अदुपधऋ ।गृहे॑रिति पाठे तु कृतसंप्रसारणस्य इका निर्देशो बोध्यः । शक्तिग्रह इति । अकित्त्वान्न संप्रसारणम् । लाङ्गलग्रह इति । एवम् — 'अङ्कुशग्रह' इत्याद्यप्युदाहार्यम् । सूत्रे चेति । वार्तिकमिदम् । सूत्रे कर्मण्युपपदे धारणार्थकाद्ग्रहधातोजित्यर्थः ।

Padamanjari

Up

गापोष्टक्॥ गायतेरिति।'गामादाग्रहणेष्वविशेषः' इति गाङे लुग्विकर रणस्यापि ग्रहणं प्राप्तं पिबतिसाहचर्यातु न भवति। सामगीति। टकः कित्वादातो लोपः, टित्वान् ङीप्। सुराशीध्वोः पिबतेरिति वक्तव्यमित्य। पिबतेरिति लुग्विकरणालुग्विकरणपरिभाषालभ्यस्यैवार्थस्य कथनम्, उपपदपरिगणनं तु वाचनिकमेव। क्षीरपेति। स्त्रियामेव विशेषात् स्त्रीलिङ्गमुदाहृतम्॥