3-2-10 वयसि च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि हरतेः अच्
वयसि गम्यमाने हरतेः कर्मण्युपपदेऽच् प्रत्ययो भवति। उद्यमनार्थोऽयमारम्भः। कालकृता शरीरावस्था यौवनादिर्वयः। यदुद्यमनं क्रियमाणं संभाव्यमानं वा वयो गमयति, तत्रायं विधिः। अस्थिहरः श्वा। कवचहरः क्षत्रियकुमारः॥
उद्यमनार्थं सूत्रम् । कवचहरः कुमारः ॥
<<वयसि च>> - वयसि च । कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः । ननुहरतेरनुद्यमनेऽ॑जित्येव सिद्धे किमर्थमिदमित्यत आह — उद्यमनार्थमिति ।
वयसि च॥ संभाव्यमानं वेति। तेनासत्यपि कवचग्रहणे वयसि गम्यमाने कवचहर इति भवतीति भावः॥