बहुलं छन्दसि

3-2-88 बहुलं छन्दसि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते कर्मणि हनः क्विप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वेण नियमादप्राप्तः क्विप् प्रत्ययो विधीयते। छन्दसि विषय उपपदान्तरेष्वपि हन्तेर्बहुलं क्विप् प्रत्ययो भवति। मातृहा सप्तमं नरकं प्रविशेत्। पितृहा (छा०उप०७.१५.२)। न च भवति — मातृघातः। पितृघातः॥

Siddhanta Kaumudi

Up

उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात् । मातृहा । पितृहा । छन्दसि लिट् - <{SK3093}> । भूतसामान्ये । अहं द्यावापृथिवी आ ततान (अ॒हं द्यावा॑पृथि॒वी आ त॑तान) । लिटः कानज्वा - <{SK3094}> । क्वसुश्च <{SK3095}> । छन्दसि लिटः कानच्क्वसू वा स्तः । चक्राणा वृष्णि (च॒क्रा॒णा वृष्णि॑) । यो नो अग्ने अररिवाँ अघायुः (यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युः) । णेश्छन्दसि - <{SK3117}> । ण्यन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ । वीरुधः पारयिष्णवः (वी॒रुध॑ पारयि॒ष्णवः॑) । भुवश्च - <{SK3118}> । अस्मात्केवलात्प्राग्वत् । भविष्णुः ।<!छन्दसि परेच्छायां क्यच उपसंख्यानम् !> (वार्तिकम्) ॥ क्याच्छन्दसि - <{SK3150}> । उप्रत्ययः स्यात् । अघायुः ।<!एरजधिकारे जवसवौ छन्दसि वाच्यौ !> (वार्तिकम्) ॥ जवे याभिर्यूनः (ज॒वे याभि॒र्यूनः॑) । ऊर्वोर्मे जवः । देवस्य सवितुः सवे (दे॒वस्य॑ सवि॒तुः॒ स॒वे) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up