3-2-87 ब्रह्मभ्रूणवृत्रेषु क्विप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते कर्मणि हनः
कर्मणीति वर्तते। ब्रह्मादिषु कर्मसूपपदेषु हन्तेर्धातोः क्विप् प्रत्ययो भवति भूते। ब्रह्महा। भ्रूणहा। वृत्रहा। किमर्थमिदमुच्यते, यावता सर्वधातुभ्यः क्विब् विहित एव? ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम्। चतुर्विधश्चात्र नियम इष्यते। ब्रह्मादिष्वेव हन्तेः, नान्यस्मिन्नुपपदे। पुरुषं हतवानिति। ब्रह्मादिषु हन्तेरेव, नान्यस्मात् स्यात्। ब्रह्माधीतवानिति। ब्रह्मादिषु हन्तेभूर्तकाले क्विबेव, नान्यः प्रत्ययः। तथा भूतकाल एव, नान्यस्मिन्। ब्रह्माणं हन्ति हनिष्यति वेति। तदेतद् वक्ष्यमाणबहुलग्रहणस्य पुरस्तादपकर्षणाद् लभ्यते॥
एषु कर्मसूपपदेषु हन्तेर्भूते क्विप्स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा । क्विप् च <{SK2983}> इत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव हन्तेरेव भूते एव क्विबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिष्वेव क्विबेवेति द्विविधो नियम इति भाष्यम् ॥
<<ब्रह्मभ्रूणवृत्रेषु क्विप्>> - ब्राहृभ्रूण । पूर्वसूत्रात्कर्मग्रहमाऽनुवृत्तेराह — कर्मस्विति । हन्तेभूते इति । भूतार्थवृत्तेर्हन्तेरित्यर्थ- । चतुर्विध इति । पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाच्चतुष्र्वपि निवेश इति भावः । तत्रब्राहृआदिष्वेव हन्ते॑रिति नियमात् पुरुषं हतवानित्यत्र न क्विप् ।ब्राहृआदिषु हन्तेरेवे॑ति नियमाद्ब्राहृ अधीतवानित्यत्र न क्विप् ।ब्राहृआदिषु हन्तेर्भूतकाले एवे॑ति नियमाद्ब्राहृ हन्ति हनिष्यति वेत्यत्र न क्विप् ।क्विबेवे॑ति नियमाद्ब्राहृ हतवानित्यतर् अण् न भवति, किंतुब्राहृभ्रूणे॑ति क्विबेव । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेः । द्विविध इति । 'उभयतो नियमोऽयम्' - ब्राहृआदिष्वेव॑क्विबेवे॑ति च भाष्यमित्यर्थः । एवं चहन्तेरेव॑,भूत एवे॑ति नियमद्वयमुपेक्ष्यमिति भावः ।
ब्रह्मभ्रूमवृत्रेषु क्विप्॥