3-2-86 कर्मणि हनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णिनिः भूते
कर्मण्युपपदे हन्तेर्धातोर्णिनिः प्रत्ययो भवति भूते काले। पितृव्यघाती। मातुलघाती ॥ कुत्सितग्रहणं कर्तव्यम्॥ इह मा भूत् — चौरं हतवान्॥
पितृव्यघाती । कर्मणीत्येतत् सहे च <{SK3006}> इति यावदधिक्रियते ॥
<<कर्मणि हनः>> - कर्मणि हनः । कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात् । पितृव्यघातीति । पितृव्यं हतवानित्यर्थः । 'हनस्तः' इति तः,हो हन्ते॑रिति हस्य घः ।
कर्मणि हनः॥ कुत्सितग्रहणमिति। पितृव्यवधादिना यः कर्ता कुत्स्यते तत्रायं प्रत्यय इति वक्तव्यमित्यर्थः॥