करणे यजः

3-2-85 करणे यजः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णिनिः भूते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

णिनिरनुवर्तते, न खश्। यजतेर्धातोःकरण उपपदे णिनिप्रत्ययो भवति भूते। अग्निष्टोमयाजी। अग्निष्टोमः फलभावनायां करणं भवति॥

Siddhanta Kaumudi

Up

करणे उपपदे भूतार्थाद्यजेर्णिनिः स्यात्कर्तरि । सोमेनेष्टवान् सोमयाजी । अग्निष्टोमयाजी ॥

Laghu Siddhanta Kaumudi

Up

करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि। सोमेनेष्टवान् सोमयाजी। अग्निष्टोमयाजी॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<करणे यजः>> - करणे यजः । सोमेनेति । सोमाख्यलताविशेषरसेन यागं कृतवानित्यर्थः । सोमलतारसद्रव्यकेन यागेन अपूर्वमुत्पादितवानिति मीमांसकाः । एतच्च द्वितीयस्य द्वितीयेद्रव्यसंयोगाच्चोदना पशुसोमयो॑रित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । अग्निष्टोमयाजीति । अग्निष्टोमाख्ययागेन अपूर्वं भावितवानित्यर्थः ।

Padamanjari

Up

करणे यजः॥ णिनिरनुवर्तते न खशिति। अत्रोक्तो हेतुः। अग्निष्टोमयाजीति। ननु चाग्निष्टोमशब्दः कर्मनामधेयम्, तत्कथमग्निष्टोमस्य यजिं प्रति करणत्वम्, न हि तदेव तत्र करणं भवति; इदं तु युक्तमुदाहरणम् - सोमेनेष्टवान् सोमयाजी, सान्नाय्येनेष्टवान् सान्नाय्ययाजीति? तत्राह - अग्निष्टोमः फलभावनायां करणं भवतीति। सत्यं याग एवाग्निष्टोमः; यागोऽपि फलभावनायां करणम्, फलस्य स्वर्गादेर्भवतो या भावना उत्पादना तस्यामित्यर्थः। ननु दीक्षणीयादिरुदवसानीयान्तो ज्योतिष्टोमाख्यो याग एव स्वर्गभावना न तदतिरिक्तः कश्चिद्व्यापारो यजनस्यास्ति यत्रः यागः कारण्यमश्नुते? उच्यते, द्विविधो यजमानव्यापारः - सामान्यरूपः, विशेषरूपश्चेति। तत्र समान्यरूप आभ्यन्तर औदासीन्यप्रच्युतिरूपः कृतिप्रयत्नादिपदाभिलप्यः; बाह्मस्तु दीक्षणीयादिरुदवसानीयान्तः प्रसिद्ध एव। एवमोदनं पचनीत्यादिष्वप्यात्मगुणः प्रयत्नः बाह्यश्चादिश्रयणादिर्द्रष्टव्यः। फलं हि प्रेप्सन् तदर्थ प्रयतते, नोदास्ते; यतोऽयमुपायं जिज्ञासते, जानीते च, ज्ञात्वा चोपायमनुतिष्ठति। सैषा स्वर्गादिफलोद्देशेन प्रवृता कृतिर्भावनेत्युच्यते। सा च भाव्यम्, करणम्, इतिकर्तव्यतां चेति त्रितयमपेक्षते - इदमनेनेत्थं भावयेदिति। यथाह - भावनापेक्ष्यमाणा हि साधनं कि फलस्य मे। साधनानुग्रहः को वेत्यनृस्यूतमपेक्षते॥ इति॥ सैषा सामान्यरूपा वृत्तिर्न शास्त्रकटाक्षमपेक्षते। विशेषरूपा त्वपेक्षते, तथा हि - फलार्थी तदुपायं जिज्ञासते, तदुपायं जिज्ञासमानः शृणोति - ज्योतिष्टोमेनस्वर्गकामो यजेतेति। तत्र च पुरुषप्रवर्तनारूपो विधिः श्रूयते, न चापुरुषार्थे पुरुषः प्रवर्तत इति विध्यवरूद्धा भावना भाव्यापेक्षायां समानपदोपातमपि दुःखरूपं धात्वर्तमपहाय पदान्तरोपातमपि पुरुषोपसर्जनमपि सुखरूपं स्वर्गमेवावलम्बते। ततः करणापेक्षायां समानपदोपातो धात्वर्थः करणं भवति, पश्चात्सन्निधिसमाम्नातं दीक्षणीयादीतिकर्तव्यतयान्वेतीत्येषा मीमांसकमर्यादा। यत्र तु न विध्यवरोधो भावनायास्तत्र धात्वर्थ एव भाव्यो भवति, यथा - पचति पाकं करोति, गच्छति गमनं करोतीत्यादि निर्दिश्यते। ननु भावनया सम्पद्यमानस्य ब्राह्यव्यापारस्य कथं तत्र करणत्वम्? को दोषः? करणं खलु सर्वत्र कर्तृव्यापारगोचरः, कुठारेण च्छिनतीत्यत्रापि उद्यमननिपातनरूपेण कर्तृव्यापारेणाप्यमानस्यैव कुठारस्य तत्र करणत्वम्, तदेव कथं द्विधाभवनरुपेण फलेनावच्छिन्नयोस्तयोश्छेदनरूपत्वं न स्वरूपत्वम्, न स्वरूपेण रजके दर्शनात्, सोऽपि हि वस्त्रमुद्यच्छते निपातयति च। अथ द्विधाभवनाभावान्न च्छिनतीत्युच्यते, तदेवमुद्यमननिपातयोश्छेदरूपत्वं कुठारगोचरत्वनिबन्धनमिति तस्य तत्र करणत्वम्, तथेहापि भावनायां स्वर्गभावनारूपत्वमग्निग्टोमाख्ययागगोचरत्वनिबन्धनमिति तस्य तत्र करणत्वम्। तदिदमुक्तम् - फल्भावनायां करणमिति। इयं हि फलं धात्वर्थं च सम्पादयति, तत्र फलभावनारूपत्वे ब्राह्यए व्यापारः करणमित्यर्थः। नन्वेवमपि यज्यर्थ प्रति अग्निष्टोमः करणं न भवति? मा भूतत्र करणत्वम्, करणं तावत् सम्बन्धि च यजिना सामानाधिकरण्येन । अथ वा - भावनापि धातोरेव वाच्या, न प्रत्ययस्य; तत्र धात्वर्थैकदेश एकदेशान्तरस्य करणम्, अग्निष्टोमशब्दश्च तत्रैकदेशान्तरे वर्तत इति न किञ्चिदनुपपन्नम्॥