भूते

3-2-84 भूते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णिनिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भूत इत्यधिकारो <<वर्तमाने लट्>> ३.२.१२३ इति यावत् । यदित ऊर्ध्वमनु — क्रमिष्यामो भूत इत्येवं तद् वेदितव्यम्। धात्वधिकाराच्च धात्वर्थे भूत इति विज्ञायते। वक्ष्यति — <<करणे यजः>> ३.२.८५ — अग्निष्टोमेनेष्टवान् अग्निष्टोमयाजी। भूत इति किम्? अग्निष्टोमेन यजते॥

Siddhanta Kaumudi

Up

अधिकारोऽयम् । वर्तमाने लट् <{SK2151}> । इति यावत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भूते>> - भूते । अधिकारोऽयमिति । धातोरित्यधिकृतम् । ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्राऽनुवर्तते इति फलति । वर्तमाने इति ।वर्तमाने ल॑डित्यतः प्रागित्यर्थः । अत्र व्याख्यानमेव शरणम् ।

Padamanjari

Up

भूते॥ यस्य सता व्यपवृक्ता तत्सर्व भूतशब्देनोच्यते, तत्र न ज्ञायते कस्मिन् भूते? किं वा धात्वर्थे? तत्राह - धात्वधिकाराच्चेति। चशब्दः पूर्वोक्तेनार्थेनास्य सङ्गतिं द्योतयति। धात्वर्थभूत इति। ननु धात्वधिकाराद्धातौ भूत इति युक्तम्, न धात्वर्थे भूत इति? उच्यते - प्रयोगे प्रत्ययस्य द्योत्यं भूतत्वमर्थस्यैव विशेषणं भवितुर्हति, विशेषणान्तरवत्, न तु शब्दस्य; तस्य स्वाभिधेयप्रतिपादने व्यग्रत्वाद्विशेषणसम्बन्धं प्रत्ययोग्यत्वात्। किञ्च - नित्योधातुरनित्यत्वेऽपि भूतात्प्रत्ययविदिरनुपपन्नः, उच्चारितलक्षणे भूतत्वे विशेषणं व्यर्थ तर्ह्यनुच्चारितात्प्रत्ययविधिः सम्भवति। नित्यश्चायं भूतशब्दोऽतिक्रान्तवाचीति निष्ठायामितरेतराश्रयत्वादप्रसिद्धिरित्यचोद्यम्॥